________________
अनुसन्धान-५६
अव० संवर० पद्म-महापद्म-शङ्ख प्रमुखानि निधानानि यः प्रदत्ते, स श्री तीर्थाधिपो जीयात्, किंभूतः ? - संवरभवः - शङ्खः, तद्वच्चारुतरो वर्यः वरः कण्ठो यस्य सः ॥१२॥
रागोरुगसंवरनिधि-भवसंवरराशिसूमणे नाथ ! ।
जय संवररेहगमनः संवरशिरच(श्च)न्द्रवत् सुखदः ॥१३॥
अव० रागो० राग एव उरुगः रागोरुगः रागोरुगस्य संवरनिधिभवं [जलनिधिजातं] विषं, तत्र संवरराशि-सू-मणिर्देवमणिः [चिन्तामणिरित्यर्थः, तस्याब्धेर्जातत्वात्] तस्य सम्बोधने - हे रागोरुगसंवरनिधिभवसंवराशि-सूमणे! हे नाथ ! त्वं जय [किंभूतः त्वम् ?] - संवररेहो गजः, तद्वद् गमनं यस्य सः, [पुनः] 'संवरशिरस्थ' मृगशिरस्थचन्द्रवत् सुखदः, यतो ज्योतिष्केषु 'सोमेन सौम्य' इति [ ] वचनात् । इत्यार्याच्छन्दः ॥१३॥
असंवरान् नमस्कृत्य, मुक्त्वाऽसंवरमात्मनः ।
संवरधनतां प्राप्तो योऽसौ श्रीतीर्थपो जीयात् ॥१४॥ अनुष्टुप्
अव० - असंवरान् अदेहान् सिद्धान् नमस्कृत्य, चारित्रसमये 'सिद्धाणं नमो किच्चा' इति [ ] वचनात् । आगतम् असंवरम् आश्रवं मुक्त्वा, संवरधनतां मुनिवरतां प्राप्तः, योऽसौ श्रीतीर्थपो जीयात् ।
यः संवरकरोऽत्यन्तं संवरादिषु जन्तुषु ।
श्रीविलासं वरं कुर्यात्, सोललासं वरसंयुतम् ॥१५॥
अव० - यो जिनः अत्यन्त(न्तं)संवरकर:-शं सुखं वरं प्रधानं करोतीति स संवरकरः, शंबरादिषु रोझादिषु जन्तुषु, सः श्रीविलासं च [वरं] बलं कुर्यात्, सोल्लासं यथा स्यात् तथा बलसंयुतं पुष्टियुतम् ॥१५॥
त्वमेव संवरः स्वामिन्नसंवरिनृणां विभो !
त्वमेव संवरस्वामी, त्वमेव संवरप्रदः ॥१६॥
अव० - त्वमेवः त्वं एव निश्चितं शंबलं पाथेयं, हे स्वामिन् ! अशंबलवतां नृणां जनानाम्, विभो ! त्वमेव संवरस्वामी - मे मम शरीरस्वामी त्वमेव जीव इत्यर्थः । त्वमेव संवर [प्रदः - संवरं संयमं प्रददाति] त्वमेव गुरुः ॥