________________
ऑगस्ट २०११
अव० य: सः, शंवरया मृगया, आखेटकक्रिया, [तया] रहितः, दशशत संवरजः सहस्रकमलः [ सहस्रदलकमलं इव इति ] शत्रुञ्जयशंवरं [ शत्रुञ्जयाख्यं ] गिरिं प्राप्य लब्ध्वा, [संवरजासनसंस्थः] पद्मासनस्थो ध्यानं लयरूपं यः अकार्षीत्, स श्रियेऽस्तु ॥९॥
यो विस्संवररहितं तथैव संवरयुतं सुसाधूनाम् । मार्गं कथयति विससंवरैर्नुतः संवरस्त्वमसः ॥१०॥
यो विस्सं [विगत: 'स्' इति वर्णः यस्मात् तद्' विस्, इति] यः विगत:[त] सूच्यङ्काररहितः, भू (?) रहितव्यञ्जनो यस्मात्, तद्धि संवरं एतावता अम्बरं इति स्थितम्, यो जिनः अम्बररहितं वस्त्ररहितं जिनमार्गकल्पं, तथैव पूर्ववद् संवरसहितं वस्त्रसहितं स्थविरकल्परूपं मार्गं साधूनां कथयति प्रकाशयति, पुनः किंभूतो ? नुतः स्तुत:, कै: ? विससंवरैः विगतो गतः सवर्णो यस्मात् । [विस:, विसश्चासौ संवर इति ] विस - संवरः, एतावता 'सं' अक्षररहितः वरः बलः इति तन्नामको दैत्यः, विनष्टः बल: यैः ते विस-संबला: देवेन्द्राः तैः, किंविशिष्टः ? – 'असंवरः [ अशरीर : ], असः नसः [ न विद्यते सं यत्र ] एतावता प्रधानः ॥१०॥
असः
-
जय जिन ! संवरवैरिजि-दपूर्वसंवरविनाशकैर्विनतः । विसमोहसंवरारे ! विसमदसंवरमहासेनः ॥११॥
४३
अव० जय० हे जिन त्वं जय, हे संवरवैरिजित् ! पञ्चवर्गपरिहारनाममालायां जिननामाधिकारे [ अर्हन्नविषयो.....संवरवैरिता... ] । न पूर्वः अपूर्व:
न विद्यते पूर्वः प्रथमो वर्णो यत्र सः [अपूर्व: ] संवरः एतावता [सं विनाकृतः] वरः इति लभ्यते, 'र-लयो - वयोरैक्यात् बर इति बलः, तन्नामा दैत्य:, तं अपूर्वसंवरं [बलदैत्यं] विनाशयन्ति इति अपूर्वसंवरविनाशकाः तैः] बलविनाशकैः सुरनाथैर्विनतः । विगतः सः यस्मात् स विस: [ विसं वरं पूर्ववत् बलं ] विसेन बलेन युक्तः मोहः इति विसमोहः, विसमोहस्य मोहबलस्य [मोह]सैन्यस्य अरे ! [रिपो ! ] । पूर्ववत् - 'मद-बले काके' [] महासेनः महत्तमसिन्धुतरुः ? ॥११॥
संवरज-महासंवरज-सवरोऽद्भुत - मुखनिधानानि । यो दत्ते स जीयात् संवरभवचारुवरकण्ठः ॥१२॥