________________
ऑगस्ट २०११
देहि मे त्वं जिनाधीश ! संवरं संवरं त्ववम् ।
अशोकसंवरं बिभ्रत् संवरत्रयमाश्रितः ॥१७॥
अव० - देहिमे० मे मम त्वं देहि हे जिनाधीश !, किं ? - संवरम् ।? [संयमम्] किंभूतं ? - संवरं ? - अवम् - न विद्यते व् [इति] व्यञ्जनो यत्र, तद् अवम्, एतावता सारं धनम्, किंभूतं ? - सारं प्रधानम् त्वं किं कुर्वन् ? - अशोकसंवरं बिभ्रत्, किंभूतं ? - अवं न [विद्यते] वः [यस्य सः] अवः तं अवं एतावता सालं वृक्षम्, तथैव [अवा संवरा - सारा । साला = वप्राः तेषां त्रयं] सालत्रयं आश्रितः ॥१७॥
त्वमश्च संवरो जीयात्, साधुतारकसन्ततेः । तथैव संवरः स्वामिन् ! मुक्तिकस्तूरिकाततेः ॥१८॥ असः संवरदो देवः संवरप्रतिबोधदः ।
संवरः शिवकान्तायाः वदने संवरः प्रभो ! ॥१९॥
अव - त्वं नस् अस्, [न विद्यते 'स्' यस्य सः] , 'च' पुनरर्थे, एतावता - | अम्बरः इति स्थितम् । अम्बरं सुगन्धद्रव्यविशेषः, कस्तूरिकाऽऽलकारी (कारिणी), तथा अम्बरः(रं) आकाशः ॥१८॥
____ अव - अस:० संवरदः किंभूतः ? असः नसः अल्पः, एतावता वरदः ईप्सितार्थदः, पुनः किंभूतः ? - संवरप्रतिबोधदः, तथैव [सं रहिते] वरे विटे प्रतिबोधदः, पुनः किंभूतः ? - संवरः कुकुमः, कस्मिन् ? - वदने मुखे, कस्याः ? शिवकान्तायाः, पुनः किंभूतः ? - संवरः पतिः, कस्याः ? - शिवकान्तायाः, चतुर्पु विशेषणेषु च 'असः' इति योज्यम् ॥१९॥ इति अनुष्टुप् छन्दः, युग्मम् ।
दुःकर्मकंसरिपुमर्दनसंवरारि-र्मानाऽसमानगिरिभञ्जनसंवरारिः । जीयान्मदाम्बुरहरहन्(?), भव्याम्बुजप्रकरसंवर ! त्वम् ॥२०॥
(वसन्त ति०) अव० - दुःकर्म० दुःकर्म एव कंसः, दुष्कर्मकंस एव रिपुः दुष्कर्मकंसरिपुः, दुष्कर्मकंसरिपुमर्दने संवरारिः, दुष्कर्मर्सरिपुमर्दनसंवरारिः, शबरनामा दैत्यः, तस्यारिः कृष्णः । मानाऽसमानगिरिभञ्जनशबरारिः पर्वतारिः