Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 9
________________ ४३० व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [उधुमाइ] उद्पूर्व० 'मां शब्दा-ऽग्निसंयोगयोः' (४) ध्मा । वर्त० तिव् । अनेन धुमादेशः । 'त्यादीनाामाद्यत्रयस्या० (३।१३९) तिव्० → इ० उधुमाइ ॥८॥ श्रदो धो दहः ॥ ८।४।९ ॥ श्रदः परस्य दधातेर्दह इत्यादेशो भवति ॥ सद्दहइ । 'सद्दहमाणो जीवो ॥ [श्रदो धो दहः] श्रद् पञ्चमी ङसि । धा षष्ठी ङस् । दह प्रथमा सि । [सद्दहइ ] श्रद्पूर्व० 'डुधांग्क् धारणे च' (११३९) धा । वर्तः तिव् । अनेन धा० → दह० । 'सर्वत्र ल-व०' (२२७९) लुक् । 'श-षोः सः' (१।२६०) श० → स० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० सद्दहइ ॥९॥ पिबेः पिज्ज-डल्ल-पट्ट-घोट्टाः ॥ ८।४।१०॥ पिबतेरेते चत्वार आदेशा वा भवन्ति ॥ पिज्जइ । डल्लइ । पट्टइ । घोट्टइ । पिअइ ॥ [पिबेः पिज्ज-डल्ल-पट्ट-घोट्टाः] पिबि षष्ठी ङस् । पिज्ज-डल्ल-पट्ट-घोट्ट प्रथमा जस् । पक्षे- [पिअइ] 'पां पाने' (२) पा । वर्तः तिव् । 'स्वरादनतो वा' (४।२४०) अत् । 'स्वराणां स्वराः' (४।२३८) इत्त्वम् । 'त्यादीनामाद्य०' (३।१३९) तिक् → इ० पिअइ ॥१०॥ उद्धाकेरोरुम्मा-वसुआ ॥ ८।४।११ ॥ उत्पूर्वस्य वातेः ओरुम्मा-वसुआ इत्येतावादेशौ वा भवतः ॥ ओरुम्माइ । वसुआइ । उव्वाइ ॥ [ उद्घाकेरोरुम्मा-वसुआ ] उद्वाकि षष्ठी ङस् । ओरुम्मा-वसुआ प्रथमा औ। पक्षे- [उव्वाइ] उद्पूर्व० 'वांक गति-गन्धनयोः' (१०६३) वा । वर्त० तिव् । 'क-ग-ट-ड०' (२७७) द्लुक् । 'अनादौ०' (२१८९) वस्य द्वित्वम् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० उव्वाइ ॥११॥ निद्राकेरोहीरोयौ ॥ ८।४।१२ ॥ निपूर्वस्य द्रातेः ओहीर - उङ्घ इत्येतावादेशौ वा भवतः ॥ ओहीरइ । उङ्घइ । निद्दाइ ॥ [निद्राकेरोहीरोयौ ] निद्राकि षष्ठी ङस् । ओहीर-उङ्घ प्रथमा औ । पक्षे- [निदाइ] निपूर्व० 'द्रांक कुत्सितगतौ' (१०६६) द्रा । वर्त्तः तिव् । 'सर्वत्र ल-व-रामवन्द्रे' (२।७९) लुक्। 'अनादौ०' (२१८९) दस्य द्वित्वम् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० निदाइ ॥१२॥ आधेराइग्घः ॥ ८।४।१३ ॥ आजिघ्रतेराइग्घ इत्यादेशो वा भवति ॥ आइग्घइ । अग्घाअइ ॥ [आ राइग्घः] आघ्रि षष्ठी ङस् । आइग्घ प्रथमा सि । पक्षे- [अग्घाअइ] 'घ्रां गन्धोपादाने' (३) घ्रा, आपर्व । वर्तः तिव् । 'हुस्वः संयोगे' (१९८४) आ० → अ०। 'सर्वत्र ल०' (२७९) लुक् । 'अनादौ०' (२१८९) द्वित्वं-घ्या०' । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वघस्य गः । 'स्वरादनतो वा' (४।२४०) अत् । 'त्यादीनामाद्य०' (३,१३९) तिव्० → इ० अग्घाअइ ॥१३।। १. सम्मट्टिी जीवो, गच्छइ नियमा विमाणवासीसु । जइ न विगयसम्मत्तो, अहव न बद्धाउओ पुव्वि ॥२५॥ जं सक्कइ तं कीरइ, जं च न सक्कइ तयंमि सद्दहणा । सद्दहमाणो जीवो, वच्चइ अयरामरं ठाणं ॥२६॥ [सम्बोधप्रकरणे सम्यक्त्वाधिकारे]

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 368