Book Title: Vyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 7
________________ ४२८ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ दुःखे णिव्वरः ॥ ८॥४॥३॥ दुःखविषयस्य कथेणिव्वर इत्यादेशो वा भवति ॥ णिव्वरइ । दुःखं कथयतीत्यर्थः ॥ [दुःखे णिव्वरः] दुःख सप्तमी ङि । णिव्वर प्रथमा सि ।। [णिव्वरइ] णिव्वरइ इति कथनेन दुःखविषयं कथनं तु जातमेव, एतावति वार्थप्रतीते: कहइ न प्रयोज्यम् ॥३॥ जुगुप्सेझुण-दुगुच्छ-दुगुञ्छाः ॥ ८।४।४ ॥ जुगुप्सेरेते त्रय आदेशा वा भवन्ति ॥ झुणइ । दुगुच्छइ । दुगुञ्छइ । पक्षे-जुगुच्छइ । गलोपे-दुउच्छइ । दुउञ्छइ । जुउच्छइ ।। [जुगुप्सेझुण-दुगुच्छ-दुगुञ्छाः ] जुगुप्सि षष्ठी ङस् । झुण-दुगुच्छ-दुगुञ्छ प्रथमा जस् । [झुणइ-दुगुच्छइ-दुगुञ्छइ ] 'गुपि गोपन-कुत्सनयोः' (७६३) गुप् । पक्षे - पक्षे- [जुगुच्छइ] जुगुप्स । वर्त० ते । 'हुस्वात् थ्य-श्च-त्स-प्सामनिश्चले' (२।२१) प्स० → छ । 'अनादौ०' (२।८९) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) जुगुच्छते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० जुगुच्छइ । 'क-ग-च-ज०' (१२१७७) इत्यादिना गलोपे तु दुउच्छइ दुउञ्छड़ जुउच्छइ ॥४॥ बुभुक्षि-वीज्योीरव-वोज्जौ ॥ ८४५ ॥ बुभुक्षेराचारक्विबन्तस्य च वीजेर्यथासंख्यं णीरव-वोज्ज इत्यादेशौ वा भवतः ।। णीरवइ । बुहुक्खइ । वोज्जइ । वीजइ ॥ [बुभुक्षि-वीज्योीरव-वोज्जौ] बुभुक्षि-वीजि षष्ठी ओस् । णीरव-वोज्ज प्रथमा औ। [णीरवइ बुहुक्खइ] बुभुक्षि० । पक्षे-बुभुक्ष्० । वर्त० तिव् । 'व्यञ्जनाद०' (४।२३९) अत् । ‘लोकात्' (१।१।३) बुभुक्षति । 'ख-घ-थ-ध-भाम्' (१।१८७) भु० → हु० । 'क्षः खः क्वचित्तु छ-झौ' (२।३) क्षस्य ख० । 'अनादौ०' (२।८९) खस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । 'त्यादीनामाद्य०' (३६१३९) तिव्० → इ० बुहुक्खइ। [वोज्जइ वीजइ] 'वीजमिवाचरतीति । 'कर्तुः क्विप०' (३।४।२५) क्विपप्र० । 'अप्रयोगीत्' (१।१३७) 'विप्लोपः । अनेन वीजस्य वोज्ज इति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० वोज्जइ । पक्षे-वीजइ ।।५।। ___ध्या-गोझा-गौ ॥ ८॥४॥६॥ अनयोर्यथासंख्यं झा-गा इत्यादेशौ भवतः ॥ झाइ झाअइ । णिज्झाइ णिज्झाअइ । निपूर्वो दर्शनार्थः ॥ गाइ गायइ ॥ झाणं । गाणं ॥ [ध्या-गोझा-गौ] ध्या च गा च = ध्या-गौ, तयोः ध्या-गोः । षष्ठी ओस् । झा-गा प्रथमा औ। ननु 'साध्वस०' (२०२६) इति झ कृते 'स्वराणां स्वराः' (४।२३८) इत्यात्वे सर्वं भविष्यति, किं सूत्रेण ? सत्यम् - 'स्वराणां स्वराः' (४।२३८) इत्यनेन आत्वं स्यात् किं वा इत्वं स्यादिति संदेहनिरासार्थं सूत्रकरणम् ॥ [झाइ झाअइ] 'ध्य चिन्तायाम्' (३०) ध्यै (२) । अनेन ध्यै० → झा० इत्यादेशः । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० झाइ । द्वितीये 'स्वरादनतो वा' (४।२४०) अकारागमः झाअइ । १. धा० पा० - तृतीयं परिशिष्टम् - 'लौकिक-वाक्यकरणीय-आगमिका धातवः' तेषु 'वीजण व्यजने' ।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 368