Book Title: Vyakhyapragnaptisutram Part 03 Author(s): Divyakirtivijay Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust View full book textPage 9
________________ सम्पादकीयम् श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 7 // / सम्पादकीयम्॥ आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः / देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्तकपूज्यपादाचार्यदेवेशश्रीमद्विजय रामचन्द्रसूरीश्वरंसंयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य अयंज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। इदमहद्वक्त्रप्रसूतं गणधररचितं श्रीव्याख्याप्रज्ञप्तिसूत्रमस्ति / तस्यापरनाम श्रीमद्भगवतीसूत्रमस्ति / तस्मिन् सूत्रे अयंतृतीयो विभागो सप्तविंशतिशतकरूपोऽस्ति।पञ्चदशशतकात् एकचत्वारिंशशतकं यावदस्ति। षोडशमेशतके चतुर्दशोद्देशकाः, सप्तदशमेशतके सप्तदशोद्देशकाः, अष्टादशमेशतके दशोद्देशकाः, एकोनविंशेशतके दशोद्देशकाः, चतुर्विशे शतके चतुर्विंशोद्देशकाः, पञ्चविंशे शतके द्वादशोद्देशकाः, षड्विंशे शतके द्वादशोद्देशकाः, सप्तविंशे शतके एकादशोद्देशकाः, अष्टाविंशे शतके एकोद्देशकः, एकोनत्रिंशे त्रिंशे च शतके एकादशोद्देशकाः, एकत्रिंशे द्वात्रिंशे च शतके अष्टाविंशोद्देशकाः, त्रयस्त्रिंशे चतुस्त्रिंशे च शतके द्वादशोद्देशकाः, पञ्चत्रिंशेशतके एकादशोद्देशकाः सन्ति / शेषाणामुद्देशको नास्ति। पञ्चदशे गोशालकशतके श्रीवीराशातना-सम्यक्त्वोत्पत्तिः भवाश्च प्ररूपिताः, षोडशे शतके अधिकरणी-जरा-कर्म-जावइयगङ्गदत्त-खान-उपयोग-लोक-बलि-अवधि-द्वीपोदधिदिक्स्तनितकुमारादिवक्तव्यता अस्ति।सप्तदशेशतके कुञ्जर-सेयत-शैलेशीक्रिया-इशानेन्द्र-पृथिवी-दक-वायु-एकेन्द्रिय-नागसुवर्णविद्युत्वायुअग्निकुमारादीनां वक्तव्यताऽस्ति / अष्टादशे शतके प्रथमविशाखा-माकन्दिक-प्राणातिपात-असुर-गौल्य-केवलि-अणगार-भव्य सोमिलवक्तव्यताऽस्ति / एकोनविंशेशतके लेश्या-गर्भपृथिवी-महाश्रव-चरम द्वीप-भवन-निर्वृत्ति-करण-वनचरसुरवक्तव्यताऽस्ति। विंशे शतके द्विन्द्रीय-आकाश-प्राणवध-उपचय // 7 //Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 562