Book Title: Vikrantkauravam Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala Samiti View full book textPage 6
________________ H O STALS - - - UNCTION प्रस्तावना। nãber हस्तिमल्लकवेः परिचयः। सोऽयं समस्तजगदूर्जितचारुकीर्तिः स्याद्वादशासनरमाश्रितशुद्धकोतिः। जीयादशेषकविराजकचक्रवर्ती श्रीहस्तिमल्ल इति विश्रुतपुण्यमूर्तिः॥ (अय्यपार्यः) तद्ग्रंथकर्तुर्हस्तिमल्लेति नाम प्रथितमासीत् । अयं च गोविंदभाख्यविदुषः सूनुर्दाक्षिणात्य आसीत् । गोविंदभठ्ठो वत्सगोत्रीयो ब्राह्मणः पूर्वमजैन आसीत्, पश्चाद्भगवत्समंतभद्रविरचितदेवागमसूत्राध्ययनेन जैनो जातः । ग्रंथस्यास्य तृतीयपृष्ठे हस्तिमल्लेन सूत्रधारमुखेनाख्यापितः “अस्ति किल सरस्वतीस्वयंवरवल्लभेन भारगोविंदस्वामिसूनुना हस्तिमल्लनाम्ना महाकवितल्लजेन विरचितं विक्रांतकौरवं नाम रूपकमिति" । अस्मिन् तेन कविना स्वपितृनाम्ना साकं यत् 'भधार' 'स्वामी' इत्येतत्पदद्वयं योजितं ताभ्यां प्रतीयते कदाचित् गोविंदभः तदानीं साधुर्भारको वा प्रथितः स्यात् । अन्यच्चास्यां विक्रांतकौरवीयप्रशस्तौ वीरसेन-जिनसेन-गुणभद्राद्याचार्यपरंपराया उल्लेखं कृत्वा लिखितं । तच्छिश्यानुक्रमेयातेऽसंख्येये विश्रुतो भुवि। गोविंदभट्ट इत्यासीद्विद्वान् मिथ्यात्ववर्जितः॥ अस्यां यत् गोविंदभधे गुणभद्रादिशिष्यपरंपरायां निरूपितः अनेनापीति प्रतीयते यद् गोविंदभद्ये गृही नासीत् साधुर्भारको वा स्यात् । ___ अस्ति गोविंदभो दक्षिणदेशनिवासी । तत्र स्वर्णयक्षीनाम्नी काचिद्देवी समाराधिता जाता । तत्प्रसादेन तस्य एतत्षट्पुत्रप्राप्तिः संजाता-१ श्रीकुमार, २ सत्यवाक्य, ३ देवरवल्लभ, ४ उदयभूषण, ५ हस्तिमल्ल ६ वर्द्धमानश्च । एते षडपिPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 182