Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरङ्गेशाय नमः ॥ आचार्य शठकोपदेशिकवरं प्राचार्यपारम्परीमध्यानम्य सनारदं कुशलवाचार्य मुनीनां वरम् । पूर्वाचार्यकृता विलोक्य बहुधा व्याख्याः सतां प्रीतये कुर्वे संप्रति युद्धकाण्डविवृतिं श्रीमत्किरीटाभिधाम् ॥ उक्तं पुरुषकारभूताया लक्ष्म्याः कृत्यं सुन्दरकाण्डे । अथोपाय कृत्यं वक्तुं षष्ठः काण्ड आरभ्यते । तत्र स्वामिना कृतकार्ये भृत्ये एवं वर्तितव्यमित्यमु मर्यमुपदेष्टुं सुग्रीवादीनामुत्साहं वर्धयन् समाहृतसीता वृत्तान्तं हनुमन्तं रामः सत्करोति प्रथमे सर्गे श्रुत्वेति । अत्र गायत्र्यक्षरं मकारः । यथावत् श्रीरामचन्द्राय नमः ॥ श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् । रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ १ ॥ कृतं हनुमता कार्यं सुमहद्भुवि दुर्लभम् । मनसाऽपि यदन्येन न शक्यं धरणीतले ॥ २ ॥ यथावस्थितप्रकारेण । अभिभाषितम् उक्तम् । उत्तरं प्रियश्रवणोत्तरकालाईम् ॥ १ ॥ अथ "प्रत्यक्षे गुरवः स्तुत्याः परोक्षे मित्रबान्धवाः । कर्मान्ते दास भृत्याश्च न कदाचन पुत्रकाः ॥” इति वचनात्कर्मान्ते दासं स्तौति-कृतमित्यादिना । अत्र महदित्यनेन सागरतरणमुच्यते । सुमहृदित्यनेन लङ्काप्रवेशः। दुर्लभमित्यनेन लङ्कार्पणम् । मनसानि न शक्यमित्यनेन पुनर्निर्गमः । प्रथमं सागर एव न त शक्यः । तीर्खापि तं लङ्का न प्रवेष्टुम् । प्रविश्यापि न धर्पयितुम् । धर्षयत्वापि न ततो निर्गन्तुमिति भावः ॥ २ ॥ रामानु०-सीता [त्तान्त अव गजनितपातिशयादुत्तमदूत लक्षण वैशिष्टय कथनेन सुग्रीवादीनां पुरतो हनुमन्तं स्तोति अथ श्रीमयुद्धकाण्डे व्याख्येयानि व्याक्रियन्ते । एवमपारं पारावारं गोवत्सपदवत्समुत्तीर्यं निरातङ्कं लङ्कां प्रविष्टेन सीतान्वेषणपूर्वकम शोकवनभङ्गादिकर्मति मानुषं पौरुषं कृत्वा प्रतिनिवृत्तेन हनुमता प्रत्यभिज्ञानपूर्वकमभिभाषितं सीता वृत्तान्तं श्रुत्वा रामस्तदाकर्णनमुदितमनाः कृतकार्ये भृत्यजने स्वामिना एवं भवितव्यमिति सदाचारमुपदेष्टुं सुग्रीवादिहरिवीराणामुत्साहमुत्पादयितुं च समाहृतप्रेयसीवृत्तान्तं हनुमन्तनस्तोदित्याह श्रुत्वेति । गायत्र्याः म इति पञ्चदशा क्षरं श्रुत्वा हनुमत इत्यस्य श्लोकस्य पञ्चमाक्षरेण म इत्यनेन संगृह्णाति । उत्तरं प्रियश्रवणोत्तरकालार्हम् ॥ १ ॥ भुवि दुर्लभं सुमहत् यत्कार्य हनुमतः कार्य स०-मास्तेरीरिसं श्रुत्वा राचयः श्राघापूर्वकमन्यस्मै दातुमचक्षाणः स्वात्मानमेव ददावित्याह श्रुत्वेत्यादिना रागः हनुमतो यथावत्सम्यगभिमाधित्तं वचनम् अवाक्यं निश्शदं यथा भवति तथा श्रुत्वा उत्तरं प्रत्युचररूपं तत्कालोचिततयोत्तमं वाक्यमब्रवीत् ॥ १ ॥ सुमहतां महात्मनां देवानां या भूः स्वर्गादिरूपं स्थानम् तस्यामपि दुर्लभम् असाध्यं यत्कार्य सीतासन्दर्शनरूपं तत् धरणीतले हनुमता कृतम् । अन्येन हनुमतो मिन्नेन । न शक्यम्, कर्तुमिति शेषः ॥ २ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 772