Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir परमो राजन्" इत्येतद्विग्रहे प्रेमवतः स एव दातव्यः । मया कालमिमं प्राप्य दत्तः । अयं किञ्चिदपि मत्तोऽनपेक्षमाणो वर्त्तते । कदा मयाऽस्मै किञ्चिद्दत्तं स्यादिति सोत्कण्ठेन मया स्थितं संप्रत्यप्रतिषेधसमयलाभाद्दत्तवानस्मि । तस्य महात्मनः महास्वभावस्य महोदारस्येत्यर्थः । देहद्वयमुपकृतवतः किमेकदेहप्रदानमुचितमिति भावः । वेण्युदग्रथनसमये सीतां संरक्ष्य दत्त्वा 'अवगाह्यार्णवं स्वप्स्ये ' इति दशायां रामदेहं च सीतासन्देशवचनेनाजी। इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे । हनूमन्तं महात्मानं कृतकार्यमुपागतम् ॥ १४ ॥ ध्यात्वा पुनरुवा चेदं वचनं रघुनन्दनः । हरीणामीश्वरस्यैव सुग्रीवस्योपशृण्वतः ॥ १५ ॥ सर्वथा सुकृतं तावत् सीतायाः परिमार्गणम् । सागरं तु समासाद्य पुनर्नष्टं मनो मम ॥ १६ ॥ कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः । हरयो दक्षिणं पारं गमि व्यन्ति समाहिताः ॥ १७ ॥ यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम । समुद्रपारगमने हरीणां किमिवोत्तरम् ॥ १८ ॥ वयद्धि । एवं देहद्वयं दत्तवतः किमेकदेहदानमुचितमिति भावः ॥ १३ ॥ रामानु०-मया कालमिमं प्राप्य दत्तश्चास्तु महात्मनः इति पाठः ॥ १३ ॥ प्रीतिहृष्टाङ्गः प्रीत्या पुलकितगात्रः । महात्मानमित्यादिविशेषणानि परिष्वङ्गहेतवः ॥ १४ ॥ एवं हनुमन्तं स्तुत्वा सागरस्य दुस्तरत्वं विचार्य विषण्णस्सन् प्रयास कृतं सीतान्वेषणं निरर्थकमिति मन्वान आह- ध्यात्वेति । एवकारो भिन्नक्रमः । ध्यात्वा दुस्तरं सागरं सर्ववानरवाहिनीसहितोऽहं कथं सन्तरिष्यामीति सञ्चिन्त्य । सुग्रीवस्योपशृण्वतः सुग्रीवे उपशृण्वत्येव । व्यत्ययेन सप्तम्यर्थे षष्ठी ॥ १५ ॥ सर्वथा सर्वप्रकारेण समुद्रतरणान्तःपुरप्रवेशादिना । सुकृतं तावत् सुष्ठु कृतमेव । परिमार्गणम् अन्वेषणम् । किंतु सागरं समासाद्य सागरस्य दुस्तरत्वमालोच्य । पुनर्नष्टं मनो मम, सीतावृत्तान्तश्रवणेन दृष्ट मपि मे मनः पुनर्नष्टं प्रकृतं विषादं पुनः प्राप्तमित्यर्थः ॥ १६ ॥ विषादमेव प्रकटयति-कथमिति । दुष्पारस्य दुष्प्रापतीरस्य । " पार तीर कर्म समाप्तौ " इत्यस्माद्धातोः खचप्रत्ययः । महाम्भसः अगाधजलस्य । समाहिताः सङ्गताः ॥ १७ ॥ सर्वथेति श्लोकोक्तं विवृणोति-यदीति । वैदेह्याः भवतीत्याह एष इत्यादि ॥ १३ ॥ प्रीतिष्टाङ्गः प्रीत्या पुलकितगात्र ॥ १४ ॥ ध्यात्वा सर्ववानरसहितोऽहं कथं सिन्धुं तरिष्यामीति सञ्चिन्त्येत्यर्थः । सुमीव स्योपशृण्वतः सप्तम्यर्थे षष्ठी ॥ १५ ॥ सागरं तु समासाद्य, दुस्तरतामालोच्येत्यर्थः । पुनर्नष्ठं मनो मम सीतावृत्तान्तश्रवणेन हृष्टं मे मनः प्रकृतविषादं पुनरपि प्राप्तमित्यर्थः ॥ १६ ॥ समाहिताः मिलिताः ॥ १७ ॥ वैदेह्या वृत्तान्तो गदितो यद्यपि गदित पत्र, हरीणां समुद्रपारगमने उत्तरं किम् उत्तरकालोचितं साधनं 106 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 772