________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
परमो राजन्" इत्येतद्विग्रहे प्रेमवतः स एव दातव्यः । मया कालमिमं प्राप्य दत्तः । अयं किञ्चिदपि मत्तोऽनपेक्षमाणो वर्त्तते । कदा मयाऽस्मै किञ्चिद्दत्तं स्यादिति सोत्कण्ठेन मया स्थितं संप्रत्यप्रतिषेधसमयलाभाद्दत्तवानस्मि । तस्य महात्मनः महास्वभावस्य महोदारस्येत्यर्थः । देहद्वयमुपकृतवतः किमेकदेहप्रदानमुचितमिति भावः । वेण्युदग्रथनसमये सीतां संरक्ष्य दत्त्वा 'अवगाह्यार्णवं स्वप्स्ये ' इति दशायां रामदेहं च सीतासन्देशवचनेनाजी। इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तं परिषस्वजे । हनूमन्तं महात्मानं कृतकार्यमुपागतम् ॥ १४ ॥ ध्यात्वा पुनरुवा चेदं वचनं रघुनन्दनः । हरीणामीश्वरस्यैव सुग्रीवस्योपशृण्वतः ॥ १५ ॥ सर्वथा सुकृतं तावत् सीतायाः परिमार्गणम् । सागरं तु समासाद्य पुनर्नष्टं मनो मम ॥ १६ ॥ कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः । हरयो दक्षिणं पारं गमि व्यन्ति समाहिताः ॥ १७ ॥ यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम । समुद्रपारगमने हरीणां किमिवोत्तरम् ॥ १८ ॥ वयद्धि । एवं देहद्वयं दत्तवतः किमेकदेहदानमुचितमिति भावः ॥ १३ ॥ रामानु०-मया कालमिमं प्राप्य दत्तश्चास्तु महात्मनः इति पाठः ॥ १३ ॥ प्रीतिहृष्टाङ्गः प्रीत्या पुलकितगात्रः । महात्मानमित्यादिविशेषणानि परिष्वङ्गहेतवः ॥ १४ ॥ एवं हनुमन्तं स्तुत्वा सागरस्य दुस्तरत्वं विचार्य विषण्णस्सन् प्रयास कृतं सीतान्वेषणं निरर्थकमिति मन्वान आह- ध्यात्वेति । एवकारो भिन्नक्रमः । ध्यात्वा दुस्तरं सागरं सर्ववानरवाहिनीसहितोऽहं कथं सन्तरिष्यामीति सञ्चिन्त्य । सुग्रीवस्योपशृण्वतः सुग्रीवे उपशृण्वत्येव । व्यत्ययेन सप्तम्यर्थे षष्ठी ॥ १५ ॥ सर्वथा सर्वप्रकारेण समुद्रतरणान्तःपुरप्रवेशादिना । सुकृतं तावत् सुष्ठु कृतमेव । परिमार्गणम् अन्वेषणम् । किंतु सागरं समासाद्य सागरस्य दुस्तरत्वमालोच्य । पुनर्नष्टं मनो मम, सीतावृत्तान्तश्रवणेन दृष्ट मपि मे मनः पुनर्नष्टं प्रकृतं विषादं पुनः प्राप्तमित्यर्थः ॥ १६ ॥ विषादमेव प्रकटयति-कथमिति । दुष्पारस्य दुष्प्रापतीरस्य । " पार तीर कर्म समाप्तौ " इत्यस्माद्धातोः खचप्रत्ययः । महाम्भसः अगाधजलस्य । समाहिताः सङ्गताः ॥ १७ ॥ सर्वथेति श्लोकोक्तं विवृणोति-यदीति । वैदेह्याः भवतीत्याह एष इत्यादि ॥ १३ ॥ प्रीतिष्टाङ्गः प्रीत्या पुलकितगात्र ॥ १४ ॥ ध्यात्वा सर्ववानरसहितोऽहं कथं सिन्धुं तरिष्यामीति सञ्चिन्त्येत्यर्थः । सुमीव स्योपशृण्वतः सप्तम्यर्थे षष्ठी ॥ १५ ॥ सागरं तु समासाद्य, दुस्तरतामालोच्येत्यर्थः । पुनर्नष्ठं मनो मम सीतावृत्तान्तश्रवणेन हृष्टं मे मनः प्रकृतविषादं पुनरपि प्राप्तमित्यर्थः ॥ १६ ॥ समाहिताः मिलिताः ॥ १७ ॥ वैदेह्या वृत्तान्तो गदितो यद्यपि गदित पत्र, हरीणां समुद्रपारगमने उत्तरं किम् उत्तरकालोचितं साधनं
106
For Private And Personal Use Only