SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyanmandir www.kobatirth.org 9.. वा.रा.भ. वृत्तान्तः गदितो यद्यपि गदित एव । हरीणां समुद्रपारगमने उत्तरं किम् उत्तरकालोचितं साधकं किम् ? न किमपीत्यर्थः । इवशब्दो वाक्यालङ्कारे ॥१८॥Mटी.यु. ३॥ इत्युक्त्वेति । ध्यानमुपागमत सागरतरणोपागचिन्तामकरोदित्यर्थः । शनिबर्हणमहावाहुपदाभ्यां सागरशोपणादिकमेवोपायमचिन्तयदिति द्योत्यते । ॥ १९॥ इति श्रीगोविन्दराजविरचित्ते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने प्रथमः सर्गः ॥१॥ इत्युक्त्वा शोकसम्भ्रान्तो रामः शत्रुनिबर्हणः । हनुमन्तं महाबाहुस्ततो ध्यानमुपागमत् ॥ १९ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे प्रथमः सर्गः ॥१॥ तं तु शोकपरिघुनं रामं दशरथात्मजम् । उवाच वचनं श्रीमान सुग्रीवः शोकनाशनम् ॥१॥ किं त्वं सन्तप्यसे वीर यथाऽन्यः प्राकृतस्तथा । मैवं भूस्त्यज सन्तापं कृतघ्न इव सौहृदम् ॥२॥ सन्तापस्य च ते स्थानं न हि पश्यामि राघव । प्रवृत्तावुपलब्धायाँ ज्ञाते च निलये रिपोः॥३॥ एवं शोकसम्भ्रान्तं राममवलोक्य समदुःखतया तच्छोकमतहमानः सुग्रीवः “आपयुन्मार्गगमने कार्यकालात्ययेषु च । अपृष्टोऽपि हितान्वेषी ब्रूयात् । कल्याणभाषितम् ॥” इति नीतिशास्त्रमनुस्मरन् शोकनिवारक वचनमुवाचेत्याह-तं विति । तुशब्दः पूर्वस्मादिलक्षण्यपरः । तं तु शोकपारनम् । IMरामः प्रीतिसमायुक्त इति प्रीतियुक्तत्वदशायामेव शोकपरियूनं शोकपरितप्तम् । दशरथात्मजं महाराजपुत्रत्वेन शोकलेशानई रामम् । श्रीमान् "शुचिता त्यागिता शोर्य समानसुखदुःखता। अनुरागश्च दाक्षिण्यं सत्यता च सुहृदणाः ॥” इति कामन्दकोक्तरीत्या मित्रगुणसम्पन्न इत्यर्थः । शोक नाशनं रामहृदयान्तर्गतशोकनिवर्तनक्षमं वचनमुवाच ॥१॥ प्राकृतः क्षुद्रः । मेवं भूः प्राकृत इद मा भूः ॥२॥ निमित्ताभावमुपपादयति-संतापस्य चति । चोऽवधारणे । सन्तापस्य स्थानमेव निमित्तमेव न पश्यामि । एतावत्पर्यन्तं सीतानुपलम्भनरूपं निमित्तमासीत् इदानी तु नास्तीत्यर्थः ।। किमित्यर्थः । १८॥ शोकसम्भ्रान्तः विदितेऽपि सीतावृत्तान्ते तत्प्रातिप्रतिबन्धकसद्भावात्कलुषितान्तःकरण इत्यर्थः ॥ १९ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीराभायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां प्रथमः सर्गः ॥ १ ॥ तमिति । शोकपरियूनं शोकपरितप्तम् ॥ १॥२॥ चोऽवधारणे । स्थानं च निमित्त ॥ ३ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy