________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स्थानम् अवकाशः। “अवकाशे स्थितौ स्थानम्" इत्यमरः । प्रवृत्तौ सीतावृत्तान्ते । “वार्ता प्रवृत्तित्तान्तः" इत्यमरः ॥३॥ त्वद्गुणपर्यालोचनायामपि न शोकावकाश इत्याह-मतिमानित्यादिना । मतिमान आगामिगोचरज्ञानवान् । शास्त्रवित नीतिशास्त्रज्ञः । प्रज्ञाऽस्यास्तीति प्राज्ञः । “प्रज्ञादिभ्यश्च"| इत्यणप्रत्ययः । ऊहापोहज्ञ इत्यर्थः । पण्डा निर्णयात्मकं ज्ञानं साऽस्य समातेति पण्डितः, परिच्छेत्तेत्यर्थः । पापिका पापयुक्ताम् । अनुत्साहकारिणी मिति यावत् । इमां बुद्धिं त्यज । कृतात्मा योगी । अर्थदूषणी मोक्षरूपपुरुषार्थनिवर्तिका बुद्धिमिव ॥४॥ नापि सागरदुस्तरत्वं सन्तापनिमित्त
मतिमाञ्छास्त्रवित् प्राज्ञः पण्डितश्चासि राघव । त्यजेमा पापिका बुद्धिं कृतात्मेवार्थदूषणीम् ॥४॥ समुद्रं लवयित्वा तु महानक्रसमाकुलम् । लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥५॥ निरुत्साहस्य दीनस्य शोकपर्याकुला त्मनः। सर्वथा व्यवसीदन्ति व्यसनं चाधिगच्छति ॥ ६॥ इमे शराः समर्थाश्च सर्वे नो हरियूथपाः । त्वत्मियार्थं
कृतोत्साहाः प्रवेष्टमपि पावकम् ॥ ७॥ एषां हर्षेण जानामि तर्कश्चास्मिन् दृढो मम ॥८॥ मित्याह-समुद्रमिति । न क्रमन्त इति नकाः गजग्राहिमत्स्याः । महानक्रसमाकीर्णमपि समुद्रं लवयित्वा लङ्कामारोहयिष्यामः, सेनामिति शेषः । ते ॥
रिपुं रावणं हनिष्यामश्च, समुद्रलपनलङ्कारोहणशवधार्थ न सन्तापः कार्य इत्यर्थः ॥ ६॥ एवं कारणाभावाच्छोकस्य नावकाश इत्युक्तम् ।। INसत्यपि कारणे स त्याज्य इत्याह-निरुत्साहस्यति । शोकपयाकुलान्मनः शोकव्याकुलमनसः, अत एव निरुत्साहस्य । सर्वार्थाः सर्वप्रयोजनानि
व्यवसीदन्ति नश्यन्ति । सः शोकं व्यसनं चाप्नोति । शोकादगुत्साहः, अनुत्साहादैन्यम्, दैन्यादर्थनाशः, अर्थनाशाच्चापत्प्राप्यत इत्यर्थः । तस्मा च्छोकस्त्याज्य इति भावः॥ ६॥ नापि सहायानुपपत्तिश्शोकनिमित्तमित्याह-इम इति । शूराः पराक्रमशालिनः । समर्थाः उपायकुशलाः । नः अस्माकं सम्बन्धिनः। सर्वे इमे हरियूथपाः त्वत्प्रियार्थ पावकमपि प्रवेष्टुं कृतोत्साहाः। किमुतान्यत्कर्तुमिति भावः॥७॥ कुत एषामुत्साहस्त्वया - मेव न पश्यामि ॥ ३॥ त्वदीयगुणविचारणायामपि शोकोऽनुचितस्तयेत्याह-मतिमानित्यादि । शाखवित् नीतिशास्त्रज्ञः । मतिमान आगामिगोचरार्थज्ञः । प्राज्ञा पाऊहापोहकुशलः । पण्डितः परिच्छेला अर्थतत्वज्ञो वा। कृतात्मा ज्ञातात्मस्वरूपो योगी । अर्थदूषणीम् अपवर्गदूषणीम् । बुद्धिमिव विषयेषूपादेयत्वबुद्धिमिव । वियद्वा अर्थदूषणी प्रयोजनहानिकरीम् । पापिकाम् अशुभात्मिकाम् । कलुषितां युद्धिं त्यजेत्यर्थः ॥ ४ ॥ समुद्रतरणेऽपि चिन्ता न कार्येत्याह-समुद्रमिति । आरोह
यिष्यामः आरोक्ष्यामः ॥ ५ ॥ शोकस्यानर्थमूलत्वं दर्शयति-निरुत्साहस्येत्यादि । व्यसनं कर्तुं ॥ ६॥ ७॥ कुतोऽयं निश्चय इत्यत्राह-एषामित्यादि । हर्षेण ७॥
For Private And Personal Use Only