Book Title: Valmiki Ramayanam Part 05
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
9..
वा.रा.भ. वृत्तान्तः गदितो यद्यपि गदित एव । हरीणां समुद्रपारगमने उत्तरं किम् उत्तरकालोचितं साधकं किम् ? न किमपीत्यर्थः । इवशब्दो वाक्यालङ्कारे ॥१८॥Mटी.यु. ३॥ इत्युक्त्वेति । ध्यानमुपागमत सागरतरणोपागचिन्तामकरोदित्यर्थः । शनिबर्हणमहावाहुपदाभ्यां सागरशोपणादिकमेवोपायमचिन्तयदिति द्योत्यते । ॥ १९॥ इति श्रीगोविन्दराजविरचित्ते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने प्रथमः सर्गः ॥१॥
इत्युक्त्वा शोकसम्भ्रान्तो रामः शत्रुनिबर्हणः । हनुमन्तं महाबाहुस्ततो ध्यानमुपागमत् ॥ १९ ॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे प्रथमः सर्गः ॥१॥ तं तु शोकपरिघुनं रामं दशरथात्मजम् । उवाच वचनं श्रीमान सुग्रीवः शोकनाशनम् ॥१॥ किं त्वं सन्तप्यसे वीर यथाऽन्यः प्राकृतस्तथा । मैवं भूस्त्यज सन्तापं कृतघ्न इव सौहृदम् ॥२॥
सन्तापस्य च ते स्थानं न हि पश्यामि राघव । प्रवृत्तावुपलब्धायाँ ज्ञाते च निलये रिपोः॥३॥ एवं शोकसम्भ्रान्तं राममवलोक्य समदुःखतया तच्छोकमतहमानः सुग्रीवः “आपयुन्मार्गगमने कार्यकालात्ययेषु च । अपृष्टोऽपि हितान्वेषी ब्रूयात् ।
कल्याणभाषितम् ॥” इति नीतिशास्त्रमनुस्मरन् शोकनिवारक वचनमुवाचेत्याह-तं विति । तुशब्दः पूर्वस्मादिलक्षण्यपरः । तं तु शोकपारनम् । IMरामः प्रीतिसमायुक्त इति प्रीतियुक्तत्वदशायामेव शोकपरियूनं शोकपरितप्तम् । दशरथात्मजं महाराजपुत्रत्वेन शोकलेशानई रामम् । श्रीमान्
"शुचिता त्यागिता शोर्य समानसुखदुःखता। अनुरागश्च दाक्षिण्यं सत्यता च सुहृदणाः ॥” इति कामन्दकोक्तरीत्या मित्रगुणसम्पन्न इत्यर्थः । शोक नाशनं रामहृदयान्तर्गतशोकनिवर्तनक्षमं वचनमुवाच ॥१॥ प्राकृतः क्षुद्रः । मेवं भूः प्राकृत इद मा भूः ॥२॥ निमित्ताभावमुपपादयति-संतापस्य चति । चोऽवधारणे । सन्तापस्य स्थानमेव निमित्तमेव न पश्यामि । एतावत्पर्यन्तं सीतानुपलम्भनरूपं निमित्तमासीत् इदानी तु नास्तीत्यर्थः ।। किमित्यर्थः । १८॥ शोकसम्भ्रान्तः विदितेऽपि सीतावृत्तान्ते तत्प्रातिप्रतिबन्धकसद्भावात्कलुषितान्तःकरण इत्यर्थः ॥ १९ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीराभायणतत्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां प्रथमः सर्गः ॥ १ ॥ तमिति । शोकपरियूनं शोकपरितप्तम् ॥ १॥२॥ चोऽवधारणे । स्थानं च निमित्त
॥
३
॥
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 772