Book Title: Vaiayakaran Bhushansara Author(s): Harivallabh Publisher: Chaukhambha Sanskrit Pustakalay View full book textPage 7
________________ प्रास्ताविकम् प्रथमतः साङ्गोपाङ्गं प्रदर्श्य पश्चाद् न्यायमतमपि सम्यक्तया सुपुष्टं प्रदर्शितं तथाऽन्यत्र नोपलभ्यते । अस्याध्ययनेन साकं व्याकरण सम्यग् न्यायदर्शनस्यापि बोधो भवेत् । स एव च सर्वशास्त्रोपकारी । उक्तं हि " काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्” इति । अत्र काणादपदं न्यायशास्त्रस्याप्युपलक्षणम् । अस्य कर्तुः कौण्डभट्टविषये इतिवृत्तं, अयं काशीनिवासी सारस्वतो ब्राम्हणः प्रसिद्धवैयाकरणमहामहोपाध्याय भट्टोजिद्दीक्षितसहोदरस्य श्रीरङ्गोजि भट्टस्य पुत्र इत्यपेक्षया नाधिकं किमपि विश्वासार्ह ज्ञायते । एतदपि " पाणिन्यादिमुनीन् प्रणम्य पितरं रङ्गोजिभट्टाभिधम् ” । "भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये” इति एतदीयवाक्यादेव । टीकाकारविषये तु नाम्नः पेक्षया न किमपि विश्वासार्हम् । अस्तु, दर्पणसहितस्यास्य भूषणस्य संशोधने गुरूणां श्री ६ महामहोपाध्याय पर्वतीयनित्यानन्दपन्तानामाज्ञामवाप्य श्री जयकृष्णदास गुप्तमहोदयानां प्रेरणया प्रवृत्तोऽहं द्वित्राणि प्राचीनहस्तलिखितानि मुद्रितानि च पुस्तकानि गृहीत्वा यथाशक्त्या गुरूणां कृपया श्रीकाशीपुराधीशत्रिपुरारिकृपया चेमं ग्रन्थं समशोधयम् । क्वचि न्मूललापनाय ग्रन्थान्तरीयाः कल्पिताश्च टिपणीरप्यकारयम् । पूर्व मुद्रितपुस्तकापेक्षयाऽत्र बहुषु स्थलेषु त्रुटितग्रन्थपूरणम् शुद्धपाठयोजनं चाकारयम् । अस्तु, अस्मिन् संशोधने मम दृष्टिदोषतो मुद्राक्षरयोजकप्रमादतो वा जातानि स्खलितानि संशोध्यात्रत्यान् गुणान् दोषान्नपास्य हंसक्षीग्न्यायेन स्वीकुर्वन्तु गुणैकपक्षपातिनो विद्वांसो दयालवोऽनुगृण्हन्तु च मामिति प्रार्थयति - विदुषामनुचरोऽनंतशास्त्री फडके ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 498