Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
दर्पणसहिते वैयाकरणभूषणसारे
अशेषफलदातारं (१) भवाब्धितरणे तरिम् ।
मुण्डके २२१० ) इत्याद्याः कूटस्थस्वरूपप्रतिपादिकाश्च श्रुतयः प्रमाणत्वेनानुसन्धेया इति भावः । अत्र भगवद्विषयकरतिभावस्य हेत्वलङ्कारो (२)ऽङ्गम् ॥ १ ॥
जगदुपादानत्वेन स्तुत्वा अपवर्गसाधनज्ञानविषयत्वेनैतच्छास्त्र. व्याख्यातृ शेषभूषणत्वेन च स्तुवञ्छेषोक्तसमस्त सिद्धान्तप्रतिपत्तये प्रार्थयते *अशेषेति । फलं प्रवृत्युद्देश्यम्ं । स्वर्गादियत्किश्चितफल: दातृत्वस्य देवतान्तरसाधारण्यादाह #अशेषेति । तथाचापवर्गरूपफलस्याप्यशेषपदेन कुक्षीकृतत्वात् तद्दातृत्वस्यानन्यसाधारण्यात् प्रार्थ्यतावच्छेदकधर्मलाभः । तदेव विशदयति #भवाब्धीति । भव एवाब्धिरिति रूपकम् (३) अब्धीयग्राहादिसदृशकामलोभाद्याक्रान्तत्वाद् दुरवगाहत्वेन भवे तदारोपः । तेन च भवस्य दुस्तरत्वं व्यज्यते । तस्य तरणं पारदेशप्राप्तिस्तस्मिनित्यर्थः *तरिम्* । साधनम् । यद्यपि तरन्त्यनया इति व्युत्पत्त्या तरणसाधनं तरिपदार्थस्तथाऽपि तदूघटकीभूततरणस्य सन्निहितपदेनैवं लाभाद् द्विरुक्तिर्मा भूदिति विशेष्यमात्रपरतया व्याख्यातम् । मुक्तिसाधनज्ञानविषयमिति यावत् । मुक्तिश्च वेदान्तिमतेऽज्ञाननिवृत्तिसमकाला स्वरूपप्राप्तिः । नन्वज्ञाननिवृत्तेरधिकरणानतिरिक्तायाः स्वरूपस्यापि च सिद्धत्वा • तद्रूपायास्तस्यास्तत्त्वज्ञानसाध्यत्वानुपपत्तिरिति चेत् । न । परेषां प्रागभावस्येव सिद्धाया एवाज्ञाननिवृत्तेर्योगक्षेम साधारण्याः साध्य. तायाः सम्भवात् । अधिकमन्यतोऽवधेयम् ।
I
नैयायिकास्तु-आत्यन्तिकदुःखध्वंसो मोक्षः । ध्वंसे आत्यन्ति कत्वञ्चस्वसमानाधिकरणदुःखासमानकालिकत्वम् । अत्रैव तवज्ञानस्योपयोगः । विशेष्यांशस्य स्वासाधारणसामग्रथा एव सम्भवानित्यसुखाभिव्यक्तिर्वा स इत्याहुः ।
(१) 'जनिकर्तुः प्रकृतिः' ( पा० सू० १ । ४ । ३० ) 'तत्प्रयोजको हेतुश्च' ( पा० सू० १ । ४ । (५५) इति निर्देशाभ्यां 'तृजकाभ्यां कर्तरि ' ( पा० सू० २ । २ । १५ ) इति निषेधस्यानित्यत्वज्ञापनादू अशेषफलदातारनित्यत्र कारकषष्ठया समासः साधुः ।
(२) अभेदेनाऽभिधा हेतुर्हेतोर्हेतुमता सह (साहित्यदर्पणे १० प० ६४ क ० ) इति तलक्षणम् । (३) रूपकं रूपितारोपो विषये निरपह्नत्रे ( साहित्यदर्पणे १० प० २८ का० ) इति रूपक
लक्षणम् ।

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 498