SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे अशेषफलदातारं (१) भवाब्धितरणे तरिम् । मुण्डके २२१० ) इत्याद्याः कूटस्थस्वरूपप्रतिपादिकाश्च श्रुतयः प्रमाणत्वेनानुसन्धेया इति भावः । अत्र भगवद्विषयकरतिभावस्य हेत्वलङ्कारो (२)ऽङ्गम् ॥ १ ॥ जगदुपादानत्वेन स्तुत्वा अपवर्गसाधनज्ञानविषयत्वेनैतच्छास्त्र. व्याख्यातृ शेषभूषणत्वेन च स्तुवञ्छेषोक्तसमस्त सिद्धान्तप्रतिपत्तये प्रार्थयते *अशेषेति । फलं प्रवृत्युद्देश्यम्ं । स्वर्गादियत्किश्चितफल: दातृत्वस्य देवतान्तरसाधारण्यादाह #अशेषेति । तथाचापवर्गरूपफलस्याप्यशेषपदेन कुक्षीकृतत्वात् तद्दातृत्वस्यानन्यसाधारण्यात् प्रार्थ्यतावच्छेदकधर्मलाभः । तदेव विशदयति #भवाब्धीति । भव एवाब्धिरिति रूपकम् (३) अब्धीयग्राहादिसदृशकामलोभाद्याक्रान्तत्वाद् दुरवगाहत्वेन भवे तदारोपः । तेन च भवस्य दुस्तरत्वं व्यज्यते । तस्य तरणं पारदेशप्राप्तिस्तस्मिनित्यर्थः *तरिम्* । साधनम् । यद्यपि तरन्त्यनया इति व्युत्पत्त्या तरणसाधनं तरिपदार्थस्तथाऽपि तदूघटकीभूततरणस्य सन्निहितपदेनैवं लाभाद् द्विरुक्तिर्मा भूदिति विशेष्यमात्रपरतया व्याख्यातम् । मुक्तिसाधनज्ञानविषयमिति यावत् । मुक्तिश्च वेदान्तिमतेऽज्ञाननिवृत्तिसमकाला स्वरूपप्राप्तिः । नन्वज्ञाननिवृत्तेरधिकरणानतिरिक्तायाः स्वरूपस्यापि च सिद्धत्वा • तद्रूपायास्तस्यास्तत्त्वज्ञानसाध्यत्वानुपपत्तिरिति चेत् । न । परेषां प्रागभावस्येव सिद्धाया एवाज्ञाननिवृत्तेर्योगक्षेम साधारण्याः साध्य. तायाः सम्भवात् । अधिकमन्यतोऽवधेयम् । I नैयायिकास्तु-आत्यन्तिकदुःखध्वंसो मोक्षः । ध्वंसे आत्यन्ति कत्वञ्चस्वसमानाधिकरणदुःखासमानकालिकत्वम् । अत्रैव तवज्ञानस्योपयोगः । विशेष्यांशस्य स्वासाधारणसामग्रथा एव सम्भवानित्यसुखाभिव्यक्तिर्वा स इत्याहुः । (१) 'जनिकर्तुः प्रकृतिः' ( पा० सू० १ । ४ । ३० ) 'तत्प्रयोजको हेतुश्च' ( पा० सू० १ । ४ । (५५) इति निर्देशाभ्यां 'तृजकाभ्यां कर्तरि ' ( पा० सू० २ । २ । १५ ) इति निषेधस्यानित्यत्वज्ञापनादू अशेषफलदातारनित्यत्र कारकषष्ठया समासः साधुः । (२) अभेदेनाऽभिधा हेतुर्हेतोर्हेतुमता सह (साहित्यदर्पणे १० प० ६४ क ० ) इति तलक्षणम् । (३) रूपकं रूपितारोपो विषये निरपह्नत्रे ( साहित्यदर्पणे १० प० २८ का० ) इति रूपक लक्षणम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy