________________
मङ्गलवादः।
शेषाऽशेषार्थलाभार्थ प्रार्थये शेषभुषणम् ॥ २॥ पाणिन्यादिमुनीन् प्रणम्य पितरं रङ्गोजिभट्टाभिधं द्वैतध्वान्तनिवारणादिफलिकां पुम्भाववाग्देवताम् । *शेषाशेषेति* कर्मधारयोत्तरपदः षष्ठीतत्पुरुषः । तस्य च लाभपदेन समासो लाभायेदामिति विग्रहे चतुर्थ्यन्तलाभपदस्यार्थपदेन सः। शेषः पतञ्जलिः, शेषांशत्वात्तस्य । तथाच शेषोक्तभाज्यप्रतिपादितनिखिलसिद्धान्तज्ञानायेत्यर्थः । *शेषभूषणमिति । शेषोऽनन्तः, स भूषणं यस्येत्यर्थः । यतोऽस्य भूषणं शेषोऽतो . ऽस्य शेषोक्तसिद्धान्तलब्ध्यै प्रार्थनमिति साभिप्रायविशेष्यस्योपादानात्परिकराङ्कराऽलङ्कारो(१)ऽत्र भगवद्विषयकरत्यङ्गम् ॥२॥
प्रेक्षावत्प्रवृत्तय इतरनन्थेभ्यः स्वग्रन्थस्योत्कर्ष प्रदर्शयन्नेव दर्शनीयविषयप्रयोजनसम्बन्धाधिकारिणां मध्येऽवश्यप्रदर्शनीयविषयं दर्शय. यति *पाणिन्यादीति* । पुम्भाववाग्देवतामिति पितुर्विशेषणम्ापुंसोभावो यस्या इति व्यधिकरणबहुव्रीहिपूर्वपदकः कर्मधारयो वाग्देवतापदेन । अथवा पुम्भावशब्दोऽर्शआद्यजन्तः। तथाचाऽऽविष्कृतपुं. विग्रहां सरस्वतीमित्यर्थः । *द्वैतध्वान्तेति द्वाभ्यां प्रकाराभ्यामितः क्षातः विरुद्धोभयधर्मप्रकारकझानविषयो धर्मीति यावत् । यद्वा द्वयो. आंबो द्विता । स्वनिष्ठकविशेष्यतानिरूपितप्रकारतासम्बन्धेन विरुद्धनानाधर्माशे धर्मिणोऽपि भावत्वसम्भवाद् द्वितापदार्थोऽपि धर्म्यव । तत्र भवं द्वैतं संशयात्मकज्ञानम् । अथवा, द्वयोरनेकस्य भावो द्विता नानात्वं, तत्सम्बन्धिज्ञानं द्वैतम्, परमार्थदशायामद्वितीय. स्यैव ब्रह्मणोऽङ्गीकारेण श्रुतिबाधितंनानास्वावगाान्तःकरणवृत्तिविशेषरूपमविद्यापरपर्यायं मिथ्याज्ञानम् । तदेव ध्वान्तं तमः, तत्त्वाऽऽच्छादकत्वात्तनिवारणमेकं मुख्यं फलं यस्यास्तामित्यर्थः । अ. नधिकारिणां स्वाश्रितानामेकतरकोटिकज्ञानोत्पादकत्वेनाधिकारिणां सन्मात्रावलम्बनशानप्रदत्वेन पुम्भाववाग्देवतायास्तनिवर्तकत्वमिति (१) अस्यालङ्कारस्य लक्षणं साहित्यदर्पणे नास्ति, कुवलयानन्दकारिकायां तु दृश्यते:
साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः ।
चतुर्णा पुरुषार्थानां दाता देवश्चतुर्भुजः ॥ ६२॥ . अत्र परिकराकुरोऽलङ्कारो नतु परिकर इति न विस्मर्त्तव्यम् । .
...