________________
दर्पणसहिते वैयाकरणभूषणसारे ढुण्ढि गौतमजैमिनीयवचनव्याख्यातृभिषितान् सिद्धान्तानुपपत्तिभिः प्रकटये तेषां वचो दूषये ॥ ३ ॥ पारिप्सितप्रतिबन्धकोपशमनाय कृतं श्रीफणिस्मरणरूपं मङ्गलं शिष्यशिक्षार्थ निबन्धन चिकीर्षितं प्रतिजानीते
भावः। *दुण्ढि * गणपतिम् । प्रणम्येत्यनुषज्यते ।* सिद्धान्तानिति* भाष्यकारादिनिर्णीतार्थाः सिद्धान्तास्तानित्यर्थः। *उपपत्तिभिः * साधकप्रमाणोपन्यासरूपाभिर्युक्तिभिरित्यर्थ। *दूषये* उपपत्तिभिरेव बाधकप्रमाणोपन्यासरूपाभिरित्यर्थः।
एतेनान्यग्रन्थेभ्यः स्वग्रन्थस्योत्कृष्टत्वं ध्वनितम् । तथाच वैयाकरणसिद्धान्तोऽत्र विषयः. प्रदर्शितस्तेनैव तज्ज्ञानं प्रयोजनं प्रतिपाद्यप्रतिपादकभावः सम्बन्धः सिद्धान्तजिज्ञासुरधिकारीति त्रयोऽ न्येऽपि दर्शितप्राया इति भावः॥३॥
ग्रन्थादावनुष्ठितस्य मङ्गलस्य तन्निबन्धनस्य च प्रयोजनमाह *प्रारिप्सितेत्यादिना समाप्तये इति विहाय प्रतिबन्धकोपशमनाय' इत्युक्तया अलौकिकाऽविगीताशष्टाचारानुमितफलमङ्गलस्य विघ्न. ध्वंस एव फलम,जन्मान्तरीयसमाप्तिमुद्दिश्य शिष्टानांमङ्गलाननुष्ठाना न्मङ्गलसमाप्त्योः शरीरनिष्ठप्रत्यासत्यैव कार्यकारणभावस्य कल्प. नीयतया तस्य च नास्तिकसमाप्तौ व्यभिचारेण समाप्तेस्तत्त्वासम्भ• वात् , किन्तु कार्यमानं प्रति प्रतिबन्धकाभावस्य हेतुतया दुरितरूपप्रतिबन्धकनिरासे एव मङ्गलस्योपयोगो न तु समाप्तावपि, विघ्नध्वं. सेनान्यथासिद्धत्वात् , समाप्तिस्त्वन्यत्र क्लप्ततत्कारणकलापादिति सूच्यते । * फणिस्मरणेति । फणी शेषः। शेषाख्यं धाम मामकम्" इति भगवदुक्तेस्तत्स्मरणस्य बिघ्ननिवारकत्वात्। मङ्गलस्य नतिस्तुत्या. दिभेदेन नानात्वमिति सूचयितुं स्मरणेत्युक्तम् । *प्रतिजानीत(१) इति* प्रतिक्षाफलं तु शिष्यावधानं बोध्यम् ।
(१) स्वकर्तव्यत्वप्रकारकबोधानुकूलो व्यापारः प्रतिज्ञा । स च व्यापार इदमिदानी मया कर्तव्यमित्यादिशब्दप्रयोगरूपः।