________________
धात्वर्थनिर्णयः। फणिभाषितभाष्याऽब्धेः शब्दकौस्तुभ उद्धृतः ॥ तत्र निर्णीत एवार्थः सङ्कपणेह कथ्यते ॥ १ ॥
उद्धृत इति । अत्र 'अस्माभिः' इति शेषः। भाष्याऽब्धेः शाब्दकौस्तुभ उद्धृत इत्युक्तिस्तु शब्दकौस्तुभोक्तानामर्थाः नामाधुनिकोत्पेक्षितत्वनिरासाय । अन्यथा तन्मूलकस्यास्य अन्यस्याप्याधुनिकोत्मक्षितसारत्वापत्तौ(१) पाणिनीयानामनुपा. देयतापत्तेः । तत्र निर्णीत इत्युक्तिरितोऽप्यधिकजिज्ञासुभिःशब्दकौस्तुभे द्रष्टव्यमिति ध्वनयितुम् ॥१॥
अथ धात्वर्थनिर्णयः। प्रतिज्ञातमाहफलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः ॥
उद्धरणकाकाङ्क्षायामाह * अस्माभिरिति * मूले *कथ्यते इति* हर्यादिनिबद्धकारिकाभिरिति शेषः ॥ १॥
तत्रस्फोटस्यार्थबोधजनकत्वात् तेनैवाऽऽकालानिवृत्तेश्च वाक्यस्फोटस्य 'वाक्यस्फोटोऽतिनिष्कर्षे' इत्यादिना सिद्धान्तयिष्यमाणत्वेऽपि प्रतिवाक्यं सङ्केतग्रहासम्भवात तदन्वाख्यानस्य लघूपायेनासुकरत्वाच तत्र कल्पनया पदानि विभज्य तेष्वपि प्रकृतिप्रत्ययभागाँस्तथैव प्रविभज्य कल्पिताभ्यामन्वयव्यतिरेकाभ्यां तत्तदर्थेस्वपि प्रकृतिप्रत्ययानामनादिसङ्केतबोधनद्वारा साधुत्वान्वाख्यायके महर्षिप्रणीते शास्त्रे प्रक्रियानिर्वाहाय पदवर्णस्फोटावपि सम्मताविति दर्शयस्तिङन्तार्थप्रधाने सुप्तिङ्चयादिरूपे वाक्ये धात्वर्थस्य प्राधान्यात्तमेवादौ निरुपयितुमाह मुले*फलव्यापारयोरिति। तत्र धा. तुरित्यस्य 'स्मृताः' इति न विशेषणम् , विभिन्नवचनान्तोपस्थापि. तत्वात् । विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्ध. (१) आधुनिकोत्पक्षितः शब्दकौस्तुभस्तस्य सारः श्रेष्ठांशः 'सारो बले स्थिरांशे च इत्यमरः ।
तस्य भावः सारत्वं तदापत्तावित्यर्थः ।