SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे फले प्रधान व्यापारस्तिर्थस्तु विशेषणम् ॥२॥ धातुरित्यत्र स्मृत इति वचनविपरिणामेनान्वयः ॥..... फलं विक्लिपयादि । संख्याया अविवक्षायां विशेष्यविशेषणवाचकपदयोः समामवचनकत्वनियमात् । अत एव नीलो घटा इत्यादेनं साधुत्वम् । तद्विवक्षायां तु 'वेदाःप्रमाणं' 'जात्याकृतिव्यक्तयः पदार्थः'(१)(न्यायसूत्रे-२२।१८) इत्यादी विभिन्नवचनत्वमपि । न च प्रकृते तद्विवक्षायां बीजमस्तीत्यतो वचनविपरिणामेनान्वयं दर्शयति भूषणसारे *धातुरित्यत्रेति। " ननु यदुद्देशेन श्रुतेलोकतो वा प्रवृत्तिरवगता तत्त्वं फलत्वम् । अन्येच्छानधीनेच्छाविषयत्वमिति यावत् । तदुक्तं हारिणा यस्यार्थस्य प्रसिद्यर्थमारभ्यन्ते पचादयः। ... तत्प्रधानं फलं तेषां न लाभादि प्रयोजनम् ॥ इति । "स्वरितत्रितः" (पा० सु०१।३।७२) इति सूत्रेऽपि फल. पदस्य प्रवृत्त्युद्देश्यमुख्यफले एव प्रसिद्धः। तथाच तादृशफलस्य धातुवाच्यत्वे विक्लित्यनुकूलव्यापारदशायां तण्डलस्य धात्व. र्थताशफलाश्रयत्वाभावात् कर्मत्वानुपपत्तिस्तजन्यतादृशफला. श्रयस्य(२) तदापत्तिश्चेत्यत आह-* फलं विक्लित्यादीति* । अयमा. शयः-फलपदस्य लोके रूढ्या तादृशार्थोपस्थापकत्वेऽप्यत्र पारिभाषिकार्थपरतैव । अन्यथा सकर्मकत्वादिव्यवहारो दुरुपपादः स्यादिति। तत्वं(३)च तद्धात्वर्थजन्यत्वे सति तद्धातुजन्योपस्थितिविषयत्वं(४) (१) व्यक्तयाकृतिजातयस्तु पदार्थ इत्याधुनिकः पाठः । परन्तु सर्वत्र व्युत्पतिवादादिप्राचीनअन्येषु टीकाधृत एव पाठो दृश्यते । - (२) विकित्त्यनुकूलव्यापारजन्यप्रवृत्युद्देश्यमुख्यकलाश्रयस्येत्यर्थः । (३) पारिभाषिकफलत्वमित्यर्थः । (१) तद्धातुजन्येत्यादि । तद्धातुनिष्ठशक्तिप्रयोज्योपस्थितिविषयत्वमित्यर्थः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy