________________
धात्वर्थनिर्णयः। तद्धास्वर्थत्वं (१) वा। जन्यत्वं च जन्यत्व(२) प्रकारकप्रतीतिविषयत्वम् । तेन सत्तादौ नाप्रसङ्गः । गम्याद्यर्थव्यापारजन्यविभागादावतिप्रसङ्गवारणाय विशेष्यं, तदर्थव्यापारेऽतिप्रसक्तिनिरासाय च सत्यन्तम् । तच्च विक्लित्त्यादीनामक्षतम् । तस्यापि प्रकृतपच्या. दिशक्यता तत्तद्रूपेणव, तथाबोधस्यसर्वानुभवसिद्धत्वात् । धातुः स्वादिकमानतोऽपि तद्वोधाच्चेति भावः ।
परे तु कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थजन्यत्वे सति तद्धा. त्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतायत्त्वम् । जन्यता चाऽऽरोपि. ताऽनारोपिता वेत्यन्यदेतत् । विभागजन्यसंयोगादिरूपे पतत्यर्थे विभागसंयोगयोः फलत्ववारणायोभयम् । कर्माख्याते फलस्य विशेष्यतयैव भानात्तत्रातिप्रसङ्गवारणाय कर्तृप्रत्ययसमभिव्या. हार इति वदन्ति । तश्चिन्त्यम् अनुगतफलत्वानिरुक्तेः । विभाग
(१) इदं फललक्षणं मीमांसकमते । तम्मते व्यापारस्य प्रत्यया. र्थत्वेन धातुवाच्यत्वाभावात् फलस्यैव धात्वर्थत्वात्तद्धातुनिष्ठश. क्तिप्रयोज्योपस्थितीयविशेष्यत्वरूपस्य तद्धात्वर्थत्वस्य फललक्षणत्वं सम्भवति । वैयाकरणमते तु व्यापारस्यापि धात्वर्थत्वेन तत्रातिव्याप्तिभिया तद्धात्वर्थत्वमात्रस्य फललक्षणत्वमसम्भवदुक्तिकम् । किन्तु, तन्मतानुसारेण प्रथमं लक्षणम् । तथाच तच्छब्दार्थस्याननुगतत्वाद्वैयाकरणमते धातुविशिष्टत्वं फलत्वमिति परिष्करणीयम् । स्वनिष्ठशक्तिप्रयोज्योपस्थितीयविषयनिष्ठजनकतानिरूपितजन्यता. विशिष्टत्व-स्वनिष्ठशक्तिप्रयोज्योपस्थितीयविषयत्वैतदुभयसम्बन्धे. न वैशिष्ट्यं वाच्यम्।
वैशिष्ट्ये वैशिष्ठ्यं स्वनिष्ठप्रकारतानिरूपकप्रतीतिनिरूपित विशेष्यतासम्बन्धेम वाच्यम् । तेन सत्तादीनामात्मधारणरूपत्वेन भवतीत्यादौ सूक्ष्मदृष्ट्याऽपि व्यापारस्य प्रतीत्यभावेन तजन्यत्वस्य सत्तादौ सुतरामभावेन तत्राव्याप्तिप्रसङ्गो निरस्तः। भवती. त्यादौ व्यापारमारोप्य आरोपिततजन्यत्वमादाय सत्तादावपि लक्षणसमन्वयसम्भवात् । अतएव दर्पणे 'तन सत्तादौ नाप्रसा इत्यग्रिमोक्तिः संगच्छते ।
(२) अत्र जम्यत्वपदेन तद्धात्वर्थजन्यत्त्वं ग्राह्यम् ।