________________
दर्पणसहिते वैयाकरणभूषणसारे, व्यापारस्तु भावनाऽभिधा साध्यत्वेनाऽभिधीयमाना क्रिया।
जन्यसंयोगे निरवयवत्वात्प्रत्यक्षत्वात् पतत्यर्थत्वाभावस्य वक्ष्यमाणतया व्यावाऽप्रसिद्धेश्चेत्यधिकमग्रे वक्ष्यते ।
ननु व्यापारत्वं न फलप्रयोजकक्रियात्वम्। आत्माश्रयात् । क्रियात्वस्यैव हि तत्त्वाद्, दण्डादिव्यापारस्यापि धात्वर्थत्वापत्तेश्च । नचेष्टापत्तिः । धात्वर्थव्यापाराश्रयस्यैव कर्तृताया वक्ष्यमाणतया तदाश्रयस्य दण्डादेः कर्तुगख्यातेनाभिधानाद् 'दण्डेन देवदत्तः पति' इत्यादी दण्डादिपदोत्तरं तृतीयाऽनापत्तः प्रथमापत्तेश्च । कर्तृकरणसंशयोराकडारीयतया संज्ञाद्वयसमावेशासम्भवेनाभिमतकरणसंज्ञायाः परया कर्तृसंशया बाधात् । किञ्च, प्रयोजकत्वं यदि साक्षाजनकत्वं, तदा 'पचति' इत्यादौ कर्तृव्यापारस्य धात्वर्थत्वा. नापत्तिः, तस्य करणव्यापारद्वारैव फलजनकत्वात् । यदि जनकज. नकसाधारणं तदा तण्डुलक्रयणस्यापि फलप्रयोजकक्रियात्वात् तहशायामपि देवदत्तादौ पचति' इतिप्रयोगापत्तिः। तण्डुलादि. क्रयणादिव्यावृत्तस्य ताशप्रयोजकत्वस्य निर्वक्तुमशक्यत्वाश्च । अत एव न तज्जन्यत्वे सति तज्जन्यजनकत्वरूपं (१)तन्त्रान्तरप्रसिद्धं. तत् । तदवच्छिन्नस्य धातुवाच्यत्वे साक्षाद्विक्लित्तिजनकान्ति. माग्निसंयोगदशायामेव 'पचति' इति प्रयोगः स्यान्नत्वधिश्रयणा. दिदशायामपि । तेषामन्तिमाग्निसंयोगेनान्यथासिद्धतया विक्लित्त्यजनकत्वात् इत्यत आह- व्यापारस्त्विति । साध्यत्वेनेति विशे. षणे तृतीया । तथाच पदान्तरसमभिव्याहाराप्रयोज्यसाध्यत्व. प्रकारकाऽभिधानविषयत्वं व्यापारत्वमित्यर्थः । अभिधानस्य प्रकारतावत्वं(२) विषतानिरूपकत्वं चौपचारिकम् । तादृशसा. ध्यत्वप्रकारकप्रतीतिविषयत्वमिति यावत् । 'घटं करोति' इत्यादौकृसमभिव्याहारे घटादीनामपि साध्यत्वेन प्रतीतेरतिप्रसङ्गभङ्गाय
(१) तन्त्रान्तरप्रसिद्ध न्यायशास्त्रप्रसिद्धं, तत् व्यापारत्वमित्यर्थः।
(२)प्रकारतावत्त्वंप्रकारतानिरूपकत्वं, विषयतानिरूपकत्वं वि. शेष्यतानिरूपकत्वम्, औपचारिक-याचितमण्डनन्यायेन आरोपित. मिति भावः।