SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। उक्तश्च वाक्यपदीये यावत् सिद्धमसिद्धं वा साध्यत्वेनाऽभिधीयते । आश्रितक्रमरूपत्वात सा क्रियेत्यभिधीयते ॥ इति । . पदान्तरसमभिव्याहाराप्रयोज्येति प्रतीतिविशेषणम् । तदसमभि. व्याहारे तेषां तत्त्वेना(१)प्रतीतेः । अधिश्रयणाद्यधाश्रयणपर्यन्त. क्रियाकलापस्य पदान्तरसमभिव्याहारमन्तरेणापि साध्यत्वेन प्रती. यमानत्वादुक्तव्यापारत्वमविकलमिति तदवच्छिन्ने पच्यादिधातु. वाच्यता नानुपपन्नेति भावः ॥ उक्तार्थस्य स्वोत्प्रेक्षितत्वं निर. स्यति *उक्तश्चेति । यावदिति । सर्वमित्यर्थः । सर्वपदार्थमेव विवृणोति सिद्धमित्यादि । सिद्धम् विद्यमानध्वंसप्रतियोगि 'अपाक्षीत' इत्यादौ । असिद्धम् भूतभिन्नं वर्तमानं तादृशप्रागभावप्रतियोगि(२) च, पचति 'पक्ष्यति' इत्यादौ। *साध्यत्वेन*। वक्ष्माणस्वरूपेण । *अ. भिधीयते* तत्प्रकारकप्रतीतिविषय इत्यर्थः। क्वचिद्विवक्ष्यते इति पा. ठः। एतेन क्रियाशब्दस्य रूढिःप्रदर्शिता। यौगिकत्वमप्याह-*आश्रि. तेति* । आश्रितं क्रमरूपं यस्यास्तत्त्वात्(३)पूर्वोपरीभूतावयवकत्वादित्यर्थः । तदीयाऽवयवानामधिश्रयणाद्यधाश्रयणपर्यन्तानां क्रमेणो. त्पत्तेःक्रियापदेन सा उच्यते । यत्रच न क्रमिकावयवको व्यापारस्तत्र रूढिरेवादरणीया, पौर्वापोरोपो वा । फलस्यापि स्वजनकव्या. पारगतपौर्वापर्यारोपेण तथैव भानम् । अत एव तन्मात्रवाचकस्य(४) . (१) साध्यत्वेनेत्यर्थः। (२) वर्तमानप्रागभावप्रतियोगीत्यर्थः। - (३) यद्यप्यत्र 'आश्रितक्रमरूपात्वादु' इत्येवं रूपं प्राप्नोति तथा. पित्वे च' (पा० सू० ३।२।६४ ) इत्यनेन आपो वैकल्पिकहस्वत्वेन 'आश्रित क्रमरूपत्वाद्' इति रूपसिद्धिः । (४) भू सत्तायामित्यादेरित्यर्थः । तत्र आत्मधारणरूपा सत्तव धातुवाच्या व्यापारस्तु सूक्ष्मदृष्टयापि न प्रतीयत इत्यारोपाश्रयणे. नैव निर्वाहः कार्यः । इदं नव्यमते । मूलकारमते भूधात्वादौ निर्वा. हप्रकारो भूषणसारे धात्वर्थनिर्णये १२ कारिकाव्याख्यायां वक्ष्यते ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy