SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे नच साध्यत्वेनाभिधाने मानाभावः । पचति, पाकः, करोति, कृतिः, इत्यादी घात्वर्थावगमाविशेषेऽपि क्रियान्तराकाङ्क्षानाकाङ्क्षपो दर्शनस्यैव मानत्वात् । तथा च क्रियान्तराकाङ्क्षा १२ · धातुत्वसिद्धिरिति भावः । *पाक इति । यद्यपि साध्यत्वेनोपस्थितिरप्यत्र, कथमन्यथा स्तोकं पाक इत्यादी स्तोकादीनां कर्मता, (१) तथाऽपि तत्र धातूपस्थाप्यभावस्य गुणतया प्रधानी - भूतघत्रुपस्थान्यस्य तस्य सिद्धतैवेत्याशयः । पर्यवसितार्थमाह *तथाचेति* । क्रियान्तरेति* । अयमाशयः यद्धर्मवत्ताज्ञानात् क्रि· यान्तराकाङ्क्षोदयस्तादृशज्ञाने प्रकारतयावच्छेदकं यत्तत्सिद्धत्वम् । तद्भिन्नत्वं ज्ञाननिष्ठतादृशाऽऽकाङ्क्षोत्थापकत्वाभावावच्छेदकं वा साध्यत्वम् । साध्यत्वज्ञानस्य तु नाकाङ्क्षाप्रतिबन्धकत्वम् । क्लृप्तकारणाभावादेव तदनुत्पादात् ! नच क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकधर्म रूपस्मध्यत्वेन धात्वर्थोपस्थितौ कृष्णं नमेश्चेत् सुखं यायादित्यादावाकाङ्क्षाभावेन क्रियान्तरान्वयो न स्यादिति वाच्यम् । तत्रापि चेत्पदसमवधानेनाकाङ्क्षोत्थापनात् । हिरुगादीनां क्रियार्थकत्वव्यवहारस्तु तदर्थस्य क्रियामात्रविशेषणत्वात् । अत एव न हिरुगाद्यर्थे कारकाणामन्वयः । तेषां क्रियान्तरसाकाङ्क्ष त्वादिति । वस्तुतस्तु, सिद्धत्वज्ञाने साध्यकाङ्क्षावत् (२) पच्याद्यर्थे साध्य. तयावगते 'किमस्य साधनम्' इत्याकाङ्क्षोदयेन साधनाकाङ्क्षोत्थापकतावच्छेदकरूपवत्त्वमेव साध्यत्वम् । अत एव 'एतदेवादाय' इत्यग्रिमग्रन्थसङ्गतिः, अन्यथा पचति भवतीत्यादौ पूर्वोक्तरूपाभावेन (१) क्रियाविशेषणानां कर्मत्वमग्रे धात्वर्थनिर्णये १४ कारिकाव्याख्यायां दर्पणे स्फुटीभविष्यति । (२) सिद्धत्वज्ञाने साध्याकाङ्क्षा तु 'भूतं भव्यायोपदिश्यते' इतिन्यायेन बोध्या । यद्वा पूर्वसिद्धस्य प्रायेण कारकत्वदर्शनात् 'सिद्धत्वज्ञाने' कारकत्वज्ञाने । 'साध्यकाङ्क्षावत्' क्रियाकाङ्क्षावदित्यर्थः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy