________________
धात्वर्थनिर्णयः ।
१३
नुत्थापकतावच्छेदकरूपं साध्यत्वम् । तद्रूपवस्त्रमसत्व भूतत्वम् ।
एतदेवाऽऽदाय -
असत्वभूतो भावश्च तिङ्गपदैरभिधीयते ।
इति वाक्यपदीयमिति द्रष्टव्यम् ।
तदसङ्गतिः स्पष्टैव ।
उत्तश्च हरिणा,
प्रयोगार्हेषु सिद्धः सन् मन्तव्योऽर्थो विशेषणैः ।
प्राक् च साधनसम्बन्धात् क्रिया नैवोपजायते ॥ इति ॥ साधनं हि क्रियां निर्वर्तयति इति "सुट्कात्" ( पा० सू० ६।१।१२५ ) इति सूत्रस्थभाष्य मध्ये तत्कल्पेऽनुगुणमित्यवधेयम् ।
केचित्तु पचतीत्यनुगतव्यवहारादस्ति पचित्वादिकं जातिः । तथाच क्रमिकानेकव्यक्तिवृत्तिजातिरेव क्रिया । साध्यत्वं च तस्या व्यक्तिद्वारकमेव । स्फोटवदस्याः क्रमवद्भिः क्षणैरभिव्यक्तिः । जातिमन्ये क्रियामाहुरनेक व्यक्तिवर्तिनीम् । असाध्या व्यक्तिरूपेण सा साध्येवोपलक्ष्यते ॥
इति वाक्यपदीयं चात्र कल्पे मानमित्याहुः ।
साध्यत्वासत्त्वभूतपदयोः पर्यायतामाह * तद्रूपवस्वमिति । * एतदेवेति * ॥ निरुक्तरूपासत्वभूतत्वमेवेत्यर्थः *असत्वभूत इति* | "भावप्रधानमाख्यातम्” (१) (निरुके १ अ० १ ० ) इतिनिरुक्तार्थप्रतिपादकमेतत् ।
सत्त्वस्वभावमापन्ना व्यक्तिर्नामभिरुच्यते ।
इति अस्य पूवार्द्धम् । *भावश्चेति । चोऽवधारणे । उक्तभाव एवेत्यर्थः । तेन सत्त्वभूतस्य तस्य व्यवच्छेदः ॥ तिङ्पदैरिति बहुवचनस्वारस्वेन तिङन्तपदैरित्यर्थः । *अभिधीयते* = बोध्यते इत्यर्थः । अभिधीयते इत्यस्य प्राधान्येनैवेति शेषः । तेन कृदन्तपदैरसत्त्वावस्थभावाऽभिधानेऽपि न क्षतिः । तिङपदैरिति भावा
(१) "सत्त्वप्रधानानि नामानीति तदुत्तरं निरुतवाक्यम् । तदर्थ प्रतिपादकमेव 'सत्वस्वभावमापन्ना' इति वाक्यपदीयकारिकार्द्धमितिद्रष्टव्यम् ।