________________
दर्पणसहिते वैयाकरणभूषणसारे । अयं च व्यापारः फूत्कारत्वाधःसन्तापनत्वयत्नत्वादितत्तपेण वाच्यः पचतीत्यादौ तत्तत्मकारकबोधस्यानुभवसिद्धत्वात् । नच नानार्थतापत्तिः । तदादिन्यायेन बुद्धिविशेषादेः(१) शक्य.
ऽऽख्याताभिप्रायेणेति कश्चित्।
*अयं चेति । साध्यत्वेन प्रतीयमानो व्यापारश्चेत्यर्थः। *वाच्य इति । पचत्यादिशक्य इत्यर्थः। *अनुभवसिद्धत्वादिति । अत एव व्यजनादिना वह्निप्रज्वलनदशायां फूत्कार एव गृहीतशक्तिकस्य न पचतीतिप्रयोगः। यागः इच्छा, शानं वेति विप्रतिपत्तिस्तु(२)स्वी. यबोधानुसारादेवेति भावः। *नच नानेति- । नानाधर्मावच्छिन्नशक्तिनिरूपकतावच्छेदकैकधर्मवत्त्वं नानार्थत्वम् (३)। तश्च पच्यादाव. क्षतमिति भावः । फलांशमादाय तत्त्वं त्वाशङ्कितुरपीष्टमेवेति बोध्यम्। *बुद्धिविशेषादेरिति स्वनिरूपितविषयतावच्छेदकत्वसम्बन्धेनेति शेषः । बुद्धिविशेषविषयतावच्छेदकत्वस्येति यावत् । अयं भावः । तदादिभ्यश्चैत्रत्वादितत्तद्रूपेण बोधः सर्वानुभवसिद्धः। सच चैत्रत्वाद्यनुगमकधर्म विनाऽनुपपन्न इति बुद्धिविशेषविषय. तावच्छेदकत्वं तदनुगमकर्ममजीकृत्य तदनुगतीकृततत्तदवच्छिन्ने
(१) ननु बुद्धिविशेषाणां परस्परभिन्नत्वेन नानात्वात् तेषामनुग. मकत्वमनुपपन्नमित्यत आह*आदेरिति ।आदिशब्देन बुद्धित्वं गृह्य. ते।तस्य जातित्वेनैकत्वात्तेनैव स्वाश्रयनिरूपितविषयतावच्छेदकत्व. सम्बन्धेन सर्वेषामनुगम इतिभावः।
(२) अस्य यजतीत्यादाविति शेषः। (३) वाच्यत्वशक्तिमतानुसारेणेदं लक्षणम् । वाच्यत्वशक्तिश्च आश्रयत्वसम्बन्धावच्छिन्नपदनिष्ठजनकतानिरूपिजन्यतावद्बोधनि. रूपितविषयतानिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यत्वरूपा अस्माच्छब्दादयमर्थो बोद्धव्य इत्यकारिका नैयायिकमते। लक्षणे आश्रयत्वसम्बन्धावच्छिन्नान्तं प्रकारतातायामन्वेति । बोधकतारूपा शक्तिः पदनिष्ठैव नतु अर्थनिष्ठा वाच्यत्वादिरूपा सा इति शक्तिनिर्णः यप्रकरणे ३६ कारिकाव्याख्याने स्फुटीभविष्यति। ..