SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । तावच्छेदकानामनुगमकस्य सत्वात् । आख्याते क्रियैकत्वव्यवस्थापि अवच्छेदकबुद्धिविशेषैक्यमादायैव । उक्तं च वाक्यपदीये - १५ गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताऽभेदः क्रियेति व्यपदिश्यते ॥ इति । धात्वर्थं निरूप्य तिङर्थमाह *आश्रये त्विति ॥ फलाश्रये, व्यापाराश्रये चैयर्थः । फलाश्रयः कर्म्म, व्यापाराश्रयः कर्त्ता । तत्र फलव्यापारयो चैत्रादिषु तदादीनां शक्तिः । बुद्धिविषयतावच्छेदकत्वस्योपलक्षणत्वापगमाश्च न चैत्रत्वादीनां तेन रूपेण शाब्दबोधे भानापत्तिः । अननुगतनानाधर्माऽवच्छिन्नशक्तिनिरूपकताऽवच्छेद कैक धर्मयत एव नानार्थत्वात् न तेषां तदपीति तदादिशक्तिनिरूपणे निर्णीतमन्यत्र, तद्वदिहाप्यव सेयमिति । ननु पूर्वापरीभूतक्षणनश्वरक्रमिकव्यापाराणां मेलनासम्भवा-तदात्मकक्रियाया अनैक्याद् 'एका च क्रिया' इति "प्रशंसायाम्” ( पा० सू० ४ १६६ ) इति सूत्रस्थभाग्यासङ्गतिरत आह *आख्या · तेति*। निर्विभक्तिकः पाठः साधुः । आख्यातप्रतिपाद्यक्रियैकत्वव्यवस्थापीत्यर्थः । सविभक्तिकपाठे सप्तमी वैषयिकाधारे अध्याहृतज्ञानक्रियामादायबोध्या । *बुद्धिविशेषैत्रयमिति* संकलनरूपबुद्धिविशेषात्मक विच्छेद कैक्यमादायेत्यर्थः । तथाचावयवाऽऽश्रयं पौर्वापर्थ्य, समुदायाश्रयमेकत्वमादाय तत्सङ्गतिरिति भावः । तत्र मानमुपन्यस्यति *उक्तञ्चेति ॥ गुणेति ॥ क्रमिकैतव्यापारसमूहं प्रति गुणभूतस्तत्तद्रूपेण भासमानैरवयवैरुपलक्षितः सङ्कलनात्मकैकत्वदुया प्रकल्पितोऽभेदोयस्यतद्रूपः समूह क्रियेति व्यवह्रियते इति कारिकार्थः । तत्र क्षणनश्वराणां व्यापाराणां वस्तुभूतसमुदायाऽभावादू, बुद्ध्येत्युक्तम् । निरूप्येत्यस्य सङ्क्षेपेणत्यादिः । प्रधानीभूतप्र कृत्यर्थनिरूपणानन्तरं विशेषणप्रत्ययार्थस्याऽवश्यवक्तभ्यतयाऽवस.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy