SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे र्धातलभ्यत्वान तिङस्तदंशे शक्तिः। अन्यलभ्यत्वात(१) । श. क्यतावच्छेदकं चाश्रयत्वं तत्तच्छक्तिविशेषरूपमिति सुवर्थनिर्णये वक्ष्यते । नन्वनयोराख्यातार्थत्वे किंमानम् । प्रतीतेः-लक्षणया,आक्षे रसङ्गत्या तनिरूपणमित्यभिप्रेत्याह *तिङयदिति । अन्यलभ्यत्वादिति । अनन्यलभ्यो हि शब्दार्थः(२) इति न्यायादिति भावः। एतेन कृ. तिमतो, व्यापारवतो वा कर्तुः शक्यत्वेऽनेककृतिव्यापाराणां शक्य. ताऽवच्छेदकत्वकल्पने गौरवमिति नैयायिकाद्युक्तं दूषणमस्मन्मताs छानविजृम्भितमिति सूचितम् । - नन्वाश्रयस्य निर्थत्वे आश्रयत्वं शक्यतावच्छेदकं वाच्यम् । तस्य च स्वरूपाऽभिन्नतया नानासम्बन्धाऽवच्छिन्नतया च नानात्वादननुगमोऽत आह *शक्यतावच्छेदकं चेति । * वक्ष्यते इति । अस्य द्वितीयार्थनिरूपणाऽवसर इतिशेषः । तथाच तत्राऽखण्डोपाधिरूपस्यानुगतस्य वक्ष्यमाणत्वान्न तत्रनानात्वप्रयुक्तो. दोष इति भावः। . मीमांसकादिमतं प्रबलप्रमाणेन निराकरिप्यन् कर्तृकर्मणो रुक्तं तिङर्थत्वं व्यवस्थापयितुं शङ्कते *नन्विति । ननु 'यद यद्बोधकं तत्तदर्थकम्' इति नियमादाख्यातजन्यकर्तृकर्मप्रतीतिरेव मानमत आह प्रतीतेरिति* । सम्भवादित्यनेनान्वितम्। सम्भवहेतुमाह *लक्षणवेति । नन्वाख्यातस्याऽऽश्रयलक्षकत्वे भाव. नाभानानुपपत्तिस्तदुपपत्तये तत्र तस्य शक्तिकल्पनेतु नाश्रये लक्ष. णासम्भवो, युगपट्टत्तिद्वयविरोधात् । भावनाश्रयत्वेन भावनाश्रये लक्षणायां तु भावनायाः प्राधान्यानुपत्तिरत आह * आक्षेपादिति। आक्षेपोऽनुपपत्तिस्तत इत्यर्थः । तथाहि, अन्विताभिधानवादिमते (१) अन्यलभ्यत्वात तिन्यधातुलभ्यत्वादित्यर्थः। (२)अनन्यलभ्य इति । शद्वार्थः अन्यप्रमाणलभ्योनभवति । अ. न्यप्रमाणलभ्येविषये शब्दस्य पुनस्तत्र शक्तिकल्पनमयुक्तमितिभावः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy