SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। .. . ? पात्, प्रथमान्तपदादा सम्भवादिति चेत् । अत्रोच्यते-"लः कर्मणि च भावे चाऽकर्मकेभ्यः" (पा. मू०३ । ४ । ६९ )इति सूत्रमेव मानम् (१)। अत्र हि चकारात्, "करि कृद्" इतिसूत्रोक्तं कर्तरीत्यनुकृष्यते । बोधकतारूपां पदानां विशेषणत्वेनैवार्थोपस्थापकतयाऽऽख्यातार्थभावनाया विशे. षणत्वाऽनुपपत्या भवति तस्य आश्रयाऽऽक्षेपकत्वम् । यद्वा अनु. मानं सः। तत्प्रयोगश्च 'आख्यातपदबोध्याभावना किश्चिदाश्रिता वि. शेषणत्वेन गृहीतशक्तिकत्वात् घटपदबोध्यघटत्ववत्' इति । समान. संविसंवेद्यत्वं तु नाऽक्षेपः प्रमेयमित्याश्रयभाने भावनाया अभा. नादू भावनापदजन्यभावनाबोधे आश्रयाऽभानाञ्चति । ननु व्याप्त्यादिप्रतिसन्धानं विनाऽप्याश्रयबोधस्यानुभवसिद्ध. त्वान्नाक्षेपादाश्रयभानोपपत्तिः, क्वाचिकत्वात् तथाभानस्य । कि. ञ्चोकरीत्या तद्भानसमर्थने आख्यातजन्यबोधे भावनायाः प्रधान्यानुपपत्तिः शक्तिग्रहे तस्या विशेषणत्वेनैवोपस्थितत्वाद् घटत्ववत्, एतत्तत्वस्य विचाराऽसहत्वाञ्चत्यत आह *प्रथमान्तपदावति। समभिव्याहृनथमाऽन्तचैत्रादिपदादेवाश्रयप्रतीत्युपपत्तरित्यर्थः(२) । एवश्व नाश्रयप्रतीत्यनुपपत्तिराश्रये आख्यातशक्तिसाधिकति भावः। ___ *मानमिति । यद्यप्याश्रयत्वेनाश्रयभानार्थ तत्राख्यातस्य श. क्तिरावश्यकीत्येवोत्तरं वक्तुमुचितं तथापि धातोः फलव्यापारयोः शक्तिराख्यातस्याश्रयत्वे शक्तिरिति मते आश्रयस्य आश्रयत्वेनापि लाभान्न सामान्यत आश्रये स्वाभिमताख्यातशक्तिः सियती. ति तन्मतनिरासार्थमपि सूत्रं प्रमाणत्वेनोपन्यस्तमिति बोध्यम् । (१) मानमिति । अनुमापकमित्यर्थः । अनुमानप्रयोगश्च आ. ख्यातं आश्रयशक्तं लाकर्मणीतिसूत्रगृहीतशक्तिकत्वात अणादि. तद्धितवत् इति । यद् यद्धर्मावच्छिन्नगृहीतशक्तिकपाणिनीय. सूत्रकं भवति तत्तद्धर्मावच्छिन्नशक्तंभवति इति सामान्यतो व्याप्तिदर्शनात् । (२) चैत्रः पचतीत्यादिवाक्येषु इत्यादिः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy