SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे तिवादिशक्तिं तत्स्थानित्वेन कल्पिते लकारे प्रकल्प्य, लकाराः कर्मणि कर्तरि चानेन विधीयन्ते । नकारविसर्गादिनिष्ठां कर्मकरणादिबोधकताशक्तिमादाय शसादिविधानवत् । नच सूत्रे कर्तृकर्मपदे कर्तृत्वकर्मत्वपरे । तथाच, कर्तृत्व-कृतिः कर्म ननु कर्तृपदाघटितमिदं सूत्रं कथमाख्यातस्य कर्तृवाचकत्वे मानमित्याशङ्कां निरस्यति *अत्र हीति* । नन्वेतत्सूत्रं लकाराणामेव क दिशक्तिबोधकं नाख्यातस्येत्यत आह बोधकतारूपामिति । बोधजनकत्वरूपामित्यर्थः । इदं चादेशिवेव शक्तिरादेशानामादेशिस्मृतिद्वाराऽर्थोपस्थापकत्वमिति मतनिरासायोक्तम् । यथा चैतत् तथा वक्ष्यते। *विधीयन्ते इति । तथाच वर्णस्फोटपक्षे श्रयमाणव. नामेव वाचकताया व्यवस्थापयिष्यमाणतया "लः कर्मणि" (पा० सू०३।४।६९) इत्यादिसुत्राणां तिवादिशक्तिग्रहे एव तात्पर्यावधारणेन सम्भवति तस्याऽख्यातशंक्तिसाधकप्रमाणत्वमिति भावः । *नकारविसर्गादीति* । 'रामान्' 'रामैः' इत्यादावित्यर्थः। *कर्तृ. कर्मपदे इति* । अस्यानुवृत्तोपात्ते इत्यादिः। *कर्तृत्वकर्मत्वपरे इति* | आकृतिशक्तिवादमभिप्रेत्य(१) भावप्रधाननिर्देशाद्वेति भावः। *कर्तृत्वं कृतिरिति* । कृओ यत्नवाचकत्वेन तत्प्रकृतिककर्बर्थकतृजन्तकर्तृशब्दस्य कृत्याश्रयवाचकतया तदुत्तरभावप्रत्ययेन प्र. कृत्यर्थप्रकारीभूतकृतिरूपधर्मबोधनादिति भावः॥ *कर्मत्वं च फ. लमिति । कर्मशब्दस्य धात्वर्थफलाश्रये पारिभाषिकत्वादिति (१) पदानां जातिवाच्या न तु व्यक्तिः लाघवात् । उक्तं च भट्ट पादैः अन्वयव्यतिरेकाभ्यामेकरूपप्रतीतितः। आकृतेः प्रथमझानात्तस्या एवाभिधेयता ॥ इति । एतन्मतं विस्तरेण मूलेऽपि-"एकंद्विकम्” इत्यादिका. रिकाव्याख्यानावसरे ग्रंथकारेणापि स्पष्टीकृतम्।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy