________________
धात्वर्थनिर्णयः।
...
त्वञ्च फलमेवार्थोऽस्त्विति शक्यम् । फलव्यापारपोर्धातुलभ्यस्वेन लकारस्य पुनस्तत्र शक्तिकल्पनाऽयोगात् (१)। ___ अथ दर्शनान्तरीयरीत्या व्यापारस्य धात्वर्थत्वाभावात्तत्र लकारविधिः स्यादिति चेत्, तर्हि कृतामपि कर्तृकर्मादिवा. चित्वं न सिध्येत् । "कर्तरि कृद्" इति च, "लः कम्मणि" इत्यनेन तुल्ययोगक्षेमम् ।
भावः । *शङ्कयमिति । तथाच तत्सूत्रबलान्न कर्तृकर्मणोराख्यात. शक्तिः सिध्यतीति भावः।
*दर्शनान्तरीयेति । दर्शनं शास्त्रं न्यायादिः अन्यदर्शनं दर्शना. ऽन्तरम् । तत्र भवा दर्शनान्तरीया । गहादित्वाच्छः। 'पचति' इत्यस्य पाकं करोतीति विवरणात् फलं पच्याद्यर्थस्तिक तु व्यापारवचन इति मीमांसका मन्यन्ते । तन्मते व्यापारस्यान्यलभ्यत्वाभावात्तत्र लकारविधी न किश्चिद् बाधकम् । यद्यप्युक्तरीत्या व्यापारे शक्तिसिद्धावपि फलशक्तिबोधकं कर्मणीत्यनुपपन्नमेव, तथाप्याभिघानाऽनभिधानव्यवस्थार्थ तदप्यावश्यकमेव; द्वेधा भानं तु कथ. श्चित् परिहरणीयमिति भावः। *कृतामिति ॥ कृत्संज्ञकानां ण्वु. ल्तृजादीनामित्यर्थः । ननु “कर्तरि कृत्" ( पा० सू० ३।४। ६७) इत्येव तत्र शक्तिसाधकमत आह *कर्तरि कृदिति चेति* ॥ तत्सूत्रादेव च कर्तरीति अत्रानुवर्तते। तथाच पूर्वसुत्रस्थकर्तृपदस्य ध. र्मिपरत्वमेव, अत्र धर्मपरतायां तु तत्रापि धर्मपरतैव (२)स्यात् । तदे। वाह *तुल्ययोगक्षेममिति * । अलब्धलाभो योगो, लब्धरक्षण क्षे. मम् । एवञ्च "लः कर्मणि" इत्यस्यानन्यलब्धभावनाया आख्याता. र्थत्वप्रतिपादकत्वोपगमे न्यायसाम्यात्, “कर्तरि कृत्" (पा० सू० ३।४।६७) इत्यस्यापि कृतां भावनार्थत्वप्रतिपादकत्वम् । तस्या आक्षेपादेव लाभान्न कृतां तच्छक्तिप्रतिपादकं तदिति यदि, तर्हि (१) अनन्यलभ्योहि शब्दार्थ इतिन्यायादिति भावः । (२) अर्थाधिकाराश्रयणादिति भावः ।