SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे - अपि च मीमांसकानां कृतामिवाऽऽख्यातानामपि कर्तृवाचित्वमस्तु, भावनाया एवाऽऽक्षेपेण कृदादिवत् प्रतीतिसम्भो वाच्यत्वं माऽस्तु । तथा सति प्राधान्यं तस्या न स्यादितिचेन्न । घटमानयेत्यादावाक्षिप्तव्यक्तेरपि प्राधान्यवदुपपत्तेः । पचती "लः कर्मणि" (पा० सु०३।४। ६९ ) इत्यपि नाऽख्यातस्य भाव. नाशक्तिप्रतिपादकमिति समानमित्यर्थः । ___ननु पूर्वसूत्रस्थकर्तृपदस्य धर्मिपरत्वेऽप्यनुवृत्तस्य तस्य शब्दाधिकाराऽश्रयणेन धर्मपरत्वसम्भवान्नोतदोषः। यदि च शब्दाधि. काराऽऽश्रयणं सत्येव गमके, प्रकृते च तदाश्रयणे प्रमाणाभाव इति विभाव्यते तदाऽपि 'शक्तिः कारक (१) 'शक्तिमत्कारकम् (२) इति पक्षद्वयस्याप्याकसिद्धतया तद्विकल्पस्य तिकृतोर्व्यवस्थितत्वा. श्रयणादर्थाधिकाराश्रयणेऽप्यभिमतार्थलाभोऽक्षत एवेत्यत आह *अपि चेति । तथाच विकल्पव्यवस्थाया एवाप्रामाणिकत्वेनैका. र्थपरतव न्याय्येति भावः। नन्वाख्यातस्य व्यापारावाचकत्वे कथं ततस्तबोधोऽत आह *भावनाया इति*। *कृदादिवदिति । "तत्र तस्येव" ( पा० सू०५।१ । ११६) इति वतिः। कृदादिस्थले इवेत्यर्थः । आदिपदात् कर्तृविहिततद्धित इत्यादेः परिग्रहः । तथाच यथा भवन्मते धातोर्व्यापारावाचकत्वेन कृदर्थक क्षिप्तभावनाया बोधविषयत्व तथाऽऽख्यातेऽपीति भावः । *तथा सतीति*! भाव. नाया अख्यातावाच्यत्वे सतीत्यर्थः । तस्या*। भावनायाः *प्रा. धान्यं* मुख्य(३)विशेष्यत्वम् । *घटमानयेति* । 'जातिः पदार्थः'। (१) सप्तमीपञ्चम्यौ कारकमध्ये (पा० सू० २ । ३ । ७) इति सूत्रभाष्ये शक्तिः कारकमितिपक्षस्य दर्शनात् । मूलपि-'आश्रयोऽवधिरुदेश्यः सम्बन्धः शक्तिरेव वा' इतिकारिकाव्याख्यानायसरे ग्रन्थकृता प्रतिपादितम् । (२) शक्तिमत्कारकमिति पक्षस्तु 'स्वतन्त्रः कर्ता' ( पा० सू० १। ४।५४) इत्यादिषु स्पष्ट एव। (३) मुख्यत्वञ्च-प्रकारताऽसमानाधिकरणत्वं बोध्यम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy