SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। त्यादौ पाकं करोतीति भावनाया विवरणदर्शनाद्वाच्यत्वमिति चेन्न । पाकाऽनुकूलव्यापारवतः कषुरपि विवरणविषयत्वाऽ. विशेषात् । नच कर्तुविवरणं तात्पर्याऽर्थविवरणं, पाकं करोतीत्यशब्दाऽर्थकर्मत्वविवरणवद्, इतरेतरयोगद्वन्द्वे समुच्चयांऽश. विवरणवद्वा, न तदर्थनिर्णायकमिति वाच्यम् । भावनायामपि तुल्यत्वात् । इति मते जात्याक्षिप्तव्यक्तर्यथा प्राधान्यं तथा काक्षिप्तभावनाया अपि प्राधान्यमुपपत्स्यत इत्यर्थः । शक्ति ग्राहकेषु(१) परिगणिताद्विः वरणाद्भावनावाचकत्वमाख्यातस्याऽऽयास्यतीत्याशडून्ते *भावना. या इति*। *विवरणेति ॥ तत्समानाऽर्थकपदाऽन्तरेण तदर्थकथ. नस्य विवरणतया, प्रकृते पचतीत्यस्य पाकभावनेत्याख्यातस्य भा. वनापदेन विवरणात्तस्य भावनावाचकत्वमित्यर्थः। विवरणस्य स्व. स्वबोधानुसारितया, न तेनाऽर्थनिर्णय इत्याह पाकाऽनुकूलेति* ॥ पचतीत्यस्यैककर्तृका पचिक्रियति कतर्विवरणस्याऽपि दर्शनेना. ऽऽख्यातस्य भावनायां शक्तिरुत कर्तरीत्यत्र विनिगमकाऽभावादितिभावः॥ *इतरेतरयोगद्वन्द्व इति ॥ समाहारद्वन्द्वे, उत्तरपदलक्ष्याऽर्थ. समाहारस्य चशब्देन विवरणादुक्तमितरेतरेति । धवखदिरावित्यादिद्वन्द्वघटकपदाऽशक्यसाहित्यस्य विग्रहवाक्यस्थचशब्देन विवरणव. दित्यर्थः । इदं चाऽन्वयप्रयोजकरूपवत्त्वं योग्यता । एवश्व, घटेन ज. लमाहरत्यत्र जलाऽऽहरणप्रयोजकतया छिद्रेतरत्ववत् प्रकृते द्वित्वाऽन्वयप्रयोजकतयाऽपदार्थसाहित्यस्यापि भानमित्यभ्युपेत्योक्तम् । तत्र साहित्यस्य द्वित्वाऽऽद्यतिरिक्तस्याऽननुभवात्तस्य द्विवचनादिनै. वोपस्थितेन तत्र समासघटकप्रत्येकपदवृत्तिः । तस्यैव चेन विवरणमिति मताऽन्तरन्तु वक्ष्यते ॥ *तुल्यत्वादिति* ॥ भावनापदेनाऽख्या. तस्य विरणमप्यदार्थविवरणमित्यस्यापि वक्तुं शक्यत्वादित्यर्थः। स्व. (१) शक्तिग्राहकेविति शक्तिग्रहं व्याकरणोपमानकोषाप्तवाक्यव्यवहारतश्च । वाक्यस्य शेषाद्विवृत्तेर्वदन्तिसानिध्यत. सिद्धपदस्य वृद्धाः॥ इति-श्लोकोक्तशक्तिग्राहकेष्वित्यर्थः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy