________________
दर्पणसहिते वैयाकरणभूषणसारे
किञ्च, 'पचति देवदत्तः' इत्यत्राऽभेदान्वयदर्शनात्तदनुरोधेन कर्त्तृर्वाच्यत्वमावश्यकम् ( १ ) पक्ता देवदत्त इतिवत् । न चादबोधे (२) समानविभक्तिकत्वं नियामकम् । तच्च अत्र ना
૨૨
स्वबाधाऽनुसारिविवरणस्य नाऽर्थनिर्णायकत्वमित्यप्युभयोः समानमिति भावः ।
नन्वाख्यातस्य कर्त्तृवाचित्वे तदाक्षिप्तभावनायाः प्राधान्याऽ • नुपपत्तिः । नचाकृतिवादे जात्याक्षिप्तव्यक्तिवत् प्राधान्यमुपपादितः मेवेति वाच्यम् । दृष्टान्तदाष्टान्तिकयोर्वैषम्यात्, तथाहि कत्री स्वस्वरूपनिरूपकतया भावनाऽऽक्षेप्तव्या, भावनाविरहिणः कर्त्तृत्वासम्भवात् । ततश्च धर्मिग्राहकमानसिद्धगुणत्वेन प्राधान्याऽसम्भ वः कृतीव । जात्या तु परिच्छेद्यतयाऽवगतस्य द्रव्यस्य तथैवाऽऽक्षेपाद् भवति तस्य प्राधान्येन भानमिति प्राधान्याऽनुरोधाद्भावनाया वाच्यत्वमावश्यकमित्यतो दृषणाऽन्तरमाह *किश्चेति । अभेदाऽन्व यदर्शनादिति* । देवदत्ताऽभिन्नैककर्त्तृको वर्त्तमानो व्यापार इत्याकारकबांधस्याऽऽकरसंमत्तत्वादित्यर्थः । *तदनुरोधेनेति । अभेदाऽन्वयाऽनुरोधेनेत्यर्थः । *आवश्यकमिति । अन्यथा ऽनुभूयमानतादृशबोधाऽपलापाssपत्तिरिति भावः । * नियामकमिति । तद्विभक्त्यन्तनामार्थनिष्ठाऽभेदसंसर्गावच्छिन्नप्रकारतानिरूपित विशेष्यतासम्बन्धेन शाब्दबुद्धि प्रति तद्विभक्त्यन्तपदजन्योपस्थितैर्हेतुत्वस्य, नीलो घट इत्यादी क्लृप्तत्वादित्यर्थः । *तच्चति* । अभेदान्वयबोधप्रयोजकसमानविभक्तिकत्वं चेत्यर्थः । *अत्र* । देवदत्तः पचतीत्यादौ । ता
।
(१) आवश्यकमिति । पदप्रतिपाद्यस्यार्थस्य पदबोध्यार्थे प्रकारतयाभानस्य सर्वत्रदर्शनात् कर्तुर्वाच्यत्वमावश्यकम् । अत एव • पचतीतिशद्वजन्यबोधे सति कः कीदृश इति प्रश्नौ देवदत्तोघनश्याम इत्युत्तरश्च संगच्छते इति दिक् ।
(२) अभेदवोधे इति । अभेदसम्बन्धावच्छिन्नप्रकारताक बोधे इत्यर्थः ।