SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। २३ स्तीति वाच्यम् । 'सोमेन यजेत' 'स्तोकं पचति' 'राजपुरुष' इसादावप्यभेदबोधाऽनापत्तेः । नच लक्षणया कर्तृरुक्तत्वात दृशनियमव्यतिरेकव्यभिचारस्थलानि दर्शयति । * सोमेनेत्यादिना* नन्वत्र यागे सोमस्य करणत्वेनैवान्धयात् कथमुक्तनियमस्य व्यः भिचार इति चेन्न । से मस्ययागभावनायां(१) करणत्वेनाऽन्वये याग. स्थाऽपि तत्र करणत्वेनैवाऽन्वयात् 'सोमेन यागनेष्टं भावयेदु' इत्यु. भयविधाने वाक्यभेदप्रसङ्गः । सोमस्य यागवत फलभावनाकरण'त्वेन प्राधान्यापत्तिर्यागार्थत्वानुपपत्तिः, प्रत्ययवाच्यफलभावनायाः समानपदोपात्तयागस्य करंणत्वेनैवान्वयादाकाजानिवृत्तेविभिन्नपदोपात्तस्य सोमस्य करणत्वेनाऽन्वयानुपपत्तिश्च । 'सोमेन यागम्' इत्यन्वयाभ्युपगमे यद्यपि सोमस्य न यागार्थत्वानुपपत्तिः करणत्वे. नैवान्वयात, तथापि प्रत्ययार्थभावनाकरणत्वेन उपस्थितस्य साध्य. त्वेनाऽन्वयानुपपत्तिदुष्परिहरैवेति सोमपदस्य मत्वर्थलक्षणया 'सो. मवता यागेनेष्टं भावयेत्' इति विशिष्टार्थविधानाद्वाक्यमेदप्रसङ्गो नेति मीमांसकसिद्धान्तः । तत्र चोक्तनियमे व्यभिचारो दुर्वार इति भावः । *स्तोकं पचतीति । अत्रापि धात्वर्थव्यापारज. न्यफले विभिन्न विभाक्तिकस्तोकपदार्थस्याभेदान्वयादित्यर्थः । ननु समानविभक्तिकत्वं नामाऽर्थयोरेवाऽभेदाऽन्वयबोधे प्रयोजकम् । अत एव व्युत्पत्ती(२) द्विवचनस्यैवोल्लेखः । नामत्वं च वक्ष्यते । प्रकृते. चाऽनुयोगिप्रतियोगिनोर्नामार्थत्वाभावानोक्तदोषोऽत आह राजपु. रुष इति*। ____ यद्यपि “सोमेन यजेत" इत्यत्रेव 'देवदत्तः पचति' इत्यत्रापि समानविभक्तिकत्वस्याऽतन्त्रतयाऽभिमतबोधान्वयानुरोधात् क. तृवाचित्वं सिद्धमेव, तथाऽपि व्युत्पत्तेर्नामाऽर्थद्वयविषयकत्वेजप (१) यागभावनायामिति यागकरणकस्वरूपेष्टकफलभावनाया. मित्यर्थः। (२) व्युत्पत्ती नामार्थयोरभेदान्वय इतिव्युत्पत्तौ इत्यर्थः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy