________________
दर्पणसहिते वैयाकरणभूषणसारे
सामानाधिकरण्यम् । पिङ्गाक्ष्यांदियौगिकानामपि द्रव्यवाचिखानापत्तेः । एवं वैश्वदेवीत्यादितद्धितानामपि । " अनेकमन्यपदार्थे,” “साऽस्य देवता", इत्यनुशासनेन, पिने अक्षिणी यस्याः,
२४
1
व्यभिचारो दुरुद्धर एवेत्याशयेन नामार्थद्वयस्थलमुपात्तम् । नैयायिकमतेन चेदम् । तैः कर्मधारये षष्ठीतत्पुरुषे च पूर्वपदशक्यलक्ष्या. न्यतरस्योत्तरपदार्थेऽभेदान्वयापगमात् । स्वमते तु (१) जहत्स्वार्थवृत्त्यभ्युपगमेन पूर्वोत्तरपदार्थयोरन्वयस्यैवाऽभावेनोक्तव्युत्पत्तेरप्र सरादिति बोध्यम् । इदमुपलक्षणं षष्ठयर्थबहुव्रीहेरपि ॥
अपरे तु — उक्तव्युत्पत्तौ नामांशेऽसमस्तत्वस्यापि विशेषणानोक्तस्थले व्यभिचार इत्याहुः । अधिकमग्रे वक्ष्यते । *सामानाधिक रण्यमिति । पदयोरेकार्थाऽभिधायित्वमित्यर्थः । *यौगिकानामिति योगोऽवयववृत्तिस्तन्मात्र पुरस्कारैण प्रवृत्तानामित्यर्थः । * द्रव्यवाचि त्वाऽनापत्तेरिति । धर्मिशक्तत्वाऽनापत्तेरित्यर्थः । * एवमिति* । लक्षणयैव सामानाधिकरण्योपपादने इत्यर्थः । इत्थमेवेतिवार्थः । *वै. श्वदेवीत्यादीति । द्रव्यवाचित्त्वाऽनापत्तेरित्यनुषज्यते । तथाच बलाबलाऽधिकरणोच्छेदाऽऽपत्तिरिति भावः ।
1
तथाहि "तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वा जिनम्" इति श्रूयते । अत्रायं संशयः किमनया श्रुत्याऽऽमिक्षावाजिनोभगुणकमेकं कर्म विधीयते ? अथवा तत्तद्गुणदेवताभिन्नं कर्मद्वयमिति । वाजेनान्नेनाऽऽमिक्षारूपेण सम्बन्धाद्वाजिनो विश्वेदेवाः, ताननूद्य वाजिनगुणोविधीयते । तेनोभयगुणकं वैश्वदेवमेकं कर्मेति पूर्वपपक्ष, 'वैश्वदेव्यामिक्षा' इत्यत्र तद्धितस्य देवतासंवन्ध्यर्थकतया (२)
. (१) स्वमतेत्विति । वैयाकरणमते इत्यर्थः । एतच्च 'जहत्स्वार्था जहत्स्वार्थे इति कारिकाव्याख्यानावसरे मूल एव स्फुटीभविष्यति ।
(२) देवतासम्बन्ध्यर्थ कतयेति । देवताविशिष्टद्रव्यरूपसम्बन्ध्यर्थकतयेत्यर्थः । अर्थात्-तद्धितस्य देवताविशिष्टद्रव्यवाचकत्वम् । उतञ्च भट्टपादैः
:
'आभिक्षां देवतायुक्तां वदत्येवैषतद्धितः' इति ।