________________
- धात्वर्थनिर्णयः।...
२५ विश्वे देवा देवता अस्या इति विग्रहदर्शनात् प्रधानषष्ठ्यर्थे एव अनुशासनलाभात् ।
श्रीतः सम्बन्धो, वाजिभ्यो वाजिनम्' इत्यत्र तु वाक्येन सः। सत्यामपि पदान्तरापेक्षायां स्वाभिन्नार्थकपदस्यैवापेक्षणान्न श्रौत. त्वबाधः सम्बन्धस्य । यत्र तु भिन्नाऽर्थकपदापेक्षा तत्रैव, वाक्यस्य विनियोजकत्वात् । एवञ्च, "वैश्यदेव्याऽऽमिक्षा" इत्येतद्विहितवे. श्वदेवयागानुवादेन न वाजिनगुणविधानम् श्रौतद्रव्येण निराका. हत्वात् । किन्तु कर्मान्तरविधिः । “वाजिभ्य" इति चापूर्वदेवता. विधानमिति राद्धान्तः। यदि च तद्धितस्य देवतासम्बन्धे एव शक्तिस्तदा वाजिनाऽऽमिक्षयोर्वाक्यविनियोज्यत्वस्य साम्यादामि. क्षाद्रव्येण देवतासम्बन्धस्य श्रौतत्वमिति सिद्धान्तव्याकोपः। ल.. क्षितद्रव्यमादाय देवतासम्बन्धे श्रौतत्वसम्बन्धात्तदनुपपत्यभावेन तद्धितस्य द्रव्यार्थकत्वकल्पनमत्ययुक्तं स्यादिति। __*अनुशासनलाभादिति* । उपलक्षणमिदं, युक्तेरपि । तथाहि घटपदाद घटप्रकारकबोधवड्यादिपदाइण्डसम्बन्ध. वानिति प्रतीतिः सर्वसिद्धा । तत्राऽऽकृत्याधिकरणन्यायेन सम्बन्धमात्रं मतुबादिवाच्यं स्यात् । अत एव, 'देवदत्तस्यगोमत्वम्' इत्यत्र त्वप्रत्ययस्य सम्बन्धबोधकत्वं सङ्गच्छते । घटत्वमित्यादौ प्रकृत्यर्थघटत्वबोधकत्ववत् प्रकृतिजन्यबोधप्रका. रस्य भावप्रत्ययार्थत्वाद्, विशेषस्य संसर्गस्य कथं ततो बोध इति तु नाऽऽशङ्कनीयम् । यतस्तस्य स्वाक्षिप्तव्यक्त्यशे प्रकार तयैव भानात् । एवं मत्वर्थविहितबहुव्रीहेरप्येकं हायनमस्या इति विग्रहे, दैवतार्थकतद्धितस्यापि विश्वेदेवा देवता अस्या इति विग्रहे च प्रत्ययार्थसम्बन्धस्यैव प्राधान्यदर्शनात् तस्यैव वृत्तिवाच्यत्वनिर्ण. यः। उक्तश्च
यस्मिन्नन्यपदार्थे च बहुव्रीहिर्विधीयते। तस्याऽपि प्रत्ययार्थत्वात् सम्बन्धस्य प्रधानता इति ।
नच गोमानित्यादौ सम्बन्धिप्रतीत्यनुपपत्तिः। उभयाऽऽश्रितेन सम्बन्धेनाऽऽक्षेपात्तदुपपत्तेः । तव कर्तृवत् सम्बन्धवच्च । मचाs