SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे ... तथाच, "अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति"इति सत्यभूतसम्बन्धस्यैव विभक्त्यर्थतया तद्विहितमतुबादेस्तादृशस. बन्धबोधकत्वन तत्र लिङ्गसंख्याऽनन्वयाऽऽपत्या सत्वभूतसम्बन्धे एवानुशासनाऽऽदरेण शक्तिरभ्युपेया । एवञ्च द्रव्यमेवार्थो मत्वर्थी. यस्याऽस्तु, सम्बन्ध आक्षेपलभ्य एव किं न स्यात् । किश्च. मतुबा. देः सम्बन्धसामान्यार्थकत्वे तस्य सम्बन्धादिपदपायताऽऽपत्या सम्बन्धविशेषार्थकत्वमेवोररीकरणीयम् । तत्वं चाऽनुयोगिप्रतियो. गिविशषनिरूप्यत्वम् । तथाचैकस्य निरूपकस्य प्रकृत्या लाभेऽप्य. नुयोगिरूपनिरूपकभानार्थ तत्र शक्तिकल्पनेत्वतीव गौरवमिति वाव्यम् । मतुबादेाऽसत्त्वभूतसम्बन्ध एव वाच्यः । अत एव सम्ब. धानामनेकत्वेऽलिङ्गकत्वेऽपि च दण्ड्यादिशब्दानामेकवचनान्तत्वं मानालिङ्गकत्वं च । सम्बन्धिनां तथास्व एव तादृशप्रयोगदर्शनात् । तथाच, मतुबर्थसम्बन्धेलिङ्गाद्यन्वयासम्भवात्तैरेवाऽऽक्षेपः सम्ब धिनः, आख्यातार्थसंख्ययेव कर्नादेः। वस्तुतस्तु लिङ्गसंख्याऽनन्वयित्वरूपासत्त्वभूतत्वमपि षष्ठ्यर्थादावर्थसिद्धम् । प्रत्ययार्थलिङ्गसख्यादेः प्रत्ययार्थ एवाऽन्वयायोगात "प्रत्ययानाम्-" (१)इति व्युत्पत्तेश्च । तस्मानासत्त्वभूतसम्बन्धः षष्ठीवाच्यः। ... यत्तु अनुयोगिरूपनिरूपकभानार्थ द्रव्ये शक्तिकल्पने गौरवमिति । तदपि न । सम्बन्धप्रत्यक्षे हि यावदाश्रयभानापेक्षा, नशाब्दे, येन तच्छक्तिकल्पनागौरवं सम्भाव्येत । तस्मात् तत्र मतुबादः श. तौ न किञ्चिद् बाधकमिति । अपश्चितं चैतदधिकमन्यत्र । । एवञ्चैकहायन्यादिपदानां सम्बन्धवाचकतायामनुशासनस्य त. दुपष्टन्धानकयुकीनां च सत्वात् तत्रैव शक्तिः सिचंन्न सम्बन्धिनी. त्यखण्डार्थः ॥ *तथाचेति ॥सामानाधिकरण्यस्य लक्षणयवोपपादन इत्यर्थः।।*अ - (१) प्रत्ययानामिति । प्रत्ययानांप्रकृत्यान्वितस्वार्थबोधकत्वमि. तिहितस्याः स्वरूपम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy