________________
पात्वर्थनिर्णयः। पाक्ये द्रव्याऽनुक्तेरारुण्यस्य स्ववाक्योपात्तद्रव्य एवाऽन्वयपतिपादकाऽरुणाधिकरणोच्छेदाऽऽपत्तिः । द्रव्यवाचकत्वसाधकमू. लयुक्तः सामानाधिकरण्यस्योक्तरीत्योपपत्तेरिति प्रपश्चितं विस्त.
रुणाधिकरणेति ॥तथाहि "अरुणया पिङ्गायकहायन्या सोमं क्रीणा. ति" इतिश्रयते । तत्र किमरुणिमा वाक्यंभक्त्वा प्रकरणे निवेशनीयः? किंवा क्रीणातिना सम्बध्यते ? इति संशये, क्रीणातिना सम्बध्यमान. स्तद्योगात् क्रयणकरणं स्याद्, न चामूर्तस्यतयुक्तामति नास्य क्रयणसम्बन्ध इति पृथगेव प्रकरणे निवेशनीय इति पूर्वपक्षः।
सिद्धान्तस्तु, सम्भवति सन्निहितपदार्थान्वये प्रकरणनिवेशानौ. चित्यातू । पिङ्गाक्ष्यादिपदानां द्रव्यवचनतया तस्मिन्नन्वयसौलभ्यन (१)तद्वारा क्रीणात्यर्थेनाऽपि समन्वयलाभाद् वाक्यघटकत्वमेव तस्येति । स चाऽनुपपन्नः पिङ्गाक्ष्यादियौगिकानां पदानामुक्तयुक्त्या सम्बन्धार्थकतया द्रव्यस्य तैरनुपादानात् ।
किञ्च पूर्वपक्षोऽप्यनुपपन्नः। पिङ्गाक्ष्यैकहायनीशब्दार्थसम्बन्ध. स्याप्यमूर्तत्वात् क्रीणातिकरणत्वाऽसम्भवेन क्रीणातिकरणत्वस्य. तद्वाक्यादलाभादारुण्यस्येव वाक्यभेदशङ्कायां मूलशथिल्याच । बहुव्रीह्योररुणपदस्य च लाक्षणिकद्रव्याविधायकताया अविशिष्टत्वेन बहुव्रीह्यादेरेव द्रव्यविधायकत्वं, नारुणपदस्थत्यत्र विनिगमकाभावात् । अधिकमग्रे वक्ष्यते ।
*उक्तरीत्येति । सम्बन्धिलक्षणाकल्पनेनेत्यर्थः । *अपश्चितमि
(१) अन्ययसौलभ्येनेति । तत्र अन्वयसौलभ्यत्वं च अन्वय योग्यत्वम, अन्वयकरणसाफल्यंच । तथाहि-अरुणयेत्यत्र तृतीया. श्रुत्याऽरुणिमगुणस्य क्रयंप्रति करणत्वं स्पष्टमवगम्यते नचामृत. स्थतस्य क्रयंप्रति करणत्वंसम्भवति विनाद्रव्यपरिच्छेदात्, अतः पिं. गाक्ष्यादिपदप्रतिपाद्यद्रव्यपरिच्छेदेन तद्रव्यद्वाराऽरुणिमगुणस्य क्रय प्रतिकरणत्वंसंभवति. अरुणपरिच्छिन्नेन द्रव्येणक्रयंकुर्यादिति । ए. पंचक्रयेऽन्वययोग्यत्वंसाक्षानास्ति, विनाद्रव्यापरिच्छेदादन्वयकरणे घफलमपिनास्ति इतिदिक् ।