________________
दर्पणसहिते वैयाकरणभूषणसारे रेण वृहदवैयाकरणभूषणे ।।
तिङः इति । बोधकतारूपा शक्तिस्तिक्षेवेत्यभिप्रे. स्येदम् ।
ति*। प्रपञ्चस्तूक्तप्रायः। *भूषणे इति। प्रकृतस्थले,समासशक्तिनि. रूपणाऽवसरे चेत्यर्थः । ‘पदार्थ निरूप्य' इत्यनेन पदार्थनिरूपणा. नन्तरं वाक्यार्थनिरूपणे तयोः सङ्गतिः सुच्यते । तत्फलं तु पूर्वापरप्रत्थैकवाक्यप्रतिपत्तिरेकप्रयोजनवती शानफलिका। , कोचिनु उन्मत्तम्लपितत्वशङ्कानिदानासङ्गतत्वज्ञाननिरासः प्र. योजनमित्याहुः।
सा चाऽनन्तर्याऽभिधानप्रयोजकजिज्ञासाजनकतावच्छेदकधमरूपा षड्विधा । तदुक्तम्
सप्रसङ्ग उपोद्धातो हेतुतावसरस्तथा। निर्वाहकैककार्यत्वे षोढा सङ्गतिरिष्यते ॥ इति ।
तत्र प्रकृतसिद्ध्यानुकूलचिन्ताकालावच्छिन्नप्रकृतानुकूलत्वमु. पोद्घातः । अनुकूलत्वं चात्र घटकत्वज्ञापकत्वादिरूपं यथायथं ग्रा. ह्यम् । तत्रावच्छेदकांशः स्वरूपसन् , इतरांशश्च शात उपयोगी । एव मग्रेऽपि । स्मृतिकालावच्छिन्नोपेक्षानहतावच्छेदकधर्मवत्त्वं प्रसङ्गः। हेतुताप्रसिद्धा। प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तिकालविाच्छन्ना. वश्यवक्तव्यत्वमवसर। निर्वाहकत्वम्, एककार्यजनकत्वं कारणतदव. स्छेदकसाधारणप्रयोजकत्वरूपम् । 'एककार्यत्वम्' एकस्य कार्यता सा च जन्यता, जन्यज्ञानविषयत्वरूपा चेति । उदाहरणनि कानि. चित्त्वत्रैव वक्ष्यन्ते । अन्यानि तु स्वयमूह्यानि । आक्षेपोदाहरणादी. नां तु तन्त्रान्तरे सङ्गतित्वेन प्रसिद्धानामेष्वेवान्तर्भाव इति न तेषा. माधिक्यसम्भाधना । प्रकृते च पदार्थतत्संसर्गविशेषरूपवाक्यार्थयोः प्रसङ्गसङ्गतिः। तथाहि निरूपितेषु पदार्थेषु प्रायशोऽसंसृष्टपदा. थीऽभावेन तत्संसर्गस्य सामान्यरूपेण स्मरणम् । ततः सामान्यघ. मप्रकारज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वाच्छिष्यस्य 'क एषां संसर्ग' इत्याकारा विशेषधर्मजिज्ञासा । ततस्तबोधनाय शिध्यस्य शब्दप्रयोगः । ततः शिष्यजिज्ञासक्षानं गुरोः। ततो जिक्षाः