SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। .. पदार्थ निरूप्य वाक्याथै निरूपयति-फले 'इत्यादि । विक्लियादि फलं प्रति । तिङः (१)कर्तृकर्मसंख्याकालाः । तत्र कर्तृकर्मणी फलव्यापारयोर्विशेषणे । संख्या कर्तृप्रत्यये कर्तरि, कर्मप्रत्यये कर्मणि। समानप्रसयोपात्तत्वात् । तथाचाऽऽ. ख्यातार्थसंख्याप्रकारकबोधं प्रति अख्यातजन्यकर्तृकर्मोपस्थितिहेतुरिति कार्यकारणभावः फलितः । साविषयशाने इष्टसाधनताशानात् कण्ठताल्वाद्यभिघातादिसम्पाद. नेन गुरोः शिष्यजिज्ञासानिवृत्तिफलकं विशेषसंसर्गरूपवाक्यार्था: भिधानमिति । संसर्गगतसामान्यस्योपेक्षाऽनहतावच्छेदकत्वात्तद्धत्वस्य तत्र सवालक्षणसङ्गतिः । इत्थमन्यत्राऽपि लक्षणानि यो. ज्यानि ॥ *विशेषणे इति* । अधाराऽऽधेयभावसम्बन्धेन प्रकारावित्यर्थः। सङ्ख्याया आख्याताऽर्थकर्तृकर्माऽन्वयित्वे प्रयोजकमाह *समान प्रत्ययोपात्तत्वादिति । एतेन समानाऽभिधानश्रुतेर्वाक्याऽपेक्षया व. लवत्वात् (२)समानपदोपात्तान्वयित्वं विहाय प्रथमाऽन्तार्थेऽन्व योऽनुचित इति व्यज्यते । एकप्रत्ययजन्योपस्थितिविषयत्वादिति तदर्थः । लडादीनां वाचकत्वकल्पे, आख्यातजन्योपस्थिति. विषयत्वस्यकालेऽपिसत्वात्तत्रव्यभिचारवारणाय कर्तृकर्मविषयत्वेन तां विशिनाष्ट *तथाचेति* । घट इत्यादावेकत्वादिसङ्ख्याप्र: कारकबाधे व्यभिचारो माभूदिति कार्य्यतावच्छेदककोटौ आख्या. ताऽर्थेति । तदर्थकालप्रकारकबोधे तन्निरासाय सङ्खयेति । स्वोक्तमाख्यातस्य कर्तृकर्मार्थकत्वं दर्शयितुं प्रसङ्गान्न्यायमतं निरा (१) तिर्थ-इति । तिशक्यइत्यर्थ । तिङ्शक्यत्वेनानुगमाइकवचनम् । (२) बलवत्त्वादिति । बलवत्त्वबीजंच "श्रुतिलिङ्गवाक्यप्रकरण' इत्यादिसूत्रप्रतिपाद्यार्थविप्रकर्षत्वम् । अत एव पूर्वतन्त्रझराख्याताभिहितसंख्यायाभावनांगत्वं 'ऐयागार्हपत्यमुपतिष्ठते' इत्यत्र ऐंद्रश्रु: तेर्गार्हपत्यापेस्थानांगत्वञ्चांगवितामिति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy