SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे नैयायिकादीनामाख्यातार्थ संरूपायाः प्रथमा ( १ ) न्तार्थ एबाऽन्वयादाख्यातार्थसंख्यामकारक बोधे प्रथमान्तपदजन्योपस्थितिर्हेतुरिति कार्यकरणभावो वाच्यः । सोऽपि चन्द्र इव मुखं दृश्यते, देवदत्तो भुक्त्वा व्रजतीत्यादौ (२) चन्द्रवत्वार्थयोराख्यातार्थानन्वयादितराऽविशेषणत्वघटित इत्यतिगौरवम् । ३० .. करोति *नैयाकिकानामित्यादिना * | *अन्वयादिति । एकपदो. पात्तयोरेकार्थान्वयित्वस्य न्याय्यत्वादितिभावः । आख्यातार्थकालप्रकारकबोधे प्रथमान्तपदजन्योपस्थितेरनपेक्षणादाह-*स. इपेति । *इतराविशेषणत्वेति* । प्रथमान्तार्थेतरविशेषणत्वा घटित . इत्यर्थः । तथाचेतरविशेषणताऽनापन्नार्थविषय कोपस्थितिः कारण: मित्यर्थः । एवञ्च, चन्द्र-भोजनादीनां प्रथमान्तार्थत्वेऽपि, इवार्थसादृश्यव्रजनादिविशेषणत्वान्न व्यभिचार इति भावः । *घटित इति । त दविषयकप्रतीत्यविषयं इत्यर्थः । तदवच्छिन्नावच्छेदकताककारणताग्रहविषय इति यावत् । इतराविशेषणत्वं चेतरविशेषणत्वताः स्पर्य्याविषयत्वम् । नातश्चैत्र इव पचतीत्यादौ, खलेकपोतन्यायेन बोधे चैत्रीयं सादृश्यमित्यवान्तरबोधाऽभावेन चैत्रस्येतरनिरूपितप्रका (१) तन्मते कृतेराख्यातार्थतया तत्र सङ्ख्याया अन्वयस्यानुचितत्वादितिभावः । (२) भुक्त्वा व्रजतीत्यादाविति । ननु प्रथयान्तेत्यस्य प्रथमान्त. स्वनानुसन्धीयमानेत्यर्थोवाच्यः । अन्यथा मैत्रङ्गच्छति चैत्र इत्यत्रमैत्रपदस्य प्रथमान्तपदत्वभ्रमे, चैत्रपदस्य द्वितीयान्तानुसन्धानेच मैत्रेसंख्यान्वयोनस्यात् । एवंचयथा वातिष्ठतीत्यत्र वारिपदस्य ननियमेन प्रथमान्तत्वग्रहापेक्षा तथाक्त्वान्तस्यापीति नायन्दोषइत्यतआह-आदीति । आदिनाभक्तस्त्वमप्यहंतेन हरिस्त्वां त्रायतेऽपिमम् । इत्यस्यसङ्ग्रहः । अत्र 'अपिशब्दस्य प्रथमांतत्वाननुसन्धाने सपूर्वाप्रथमायाविभाषेत्यस्थानुपस्थितौ साधुत्वप्रतिपत्यभावेन सहदयानां ततः शाब्दबोधोनस्यादिति ध्येयम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy