SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। .. इदमपि कर्तृकर्मणोराख्याताऽर्थत्वे मानमिति स्पष्ट भूषणे॥ रताशून्यत्वरूपेतराऽविशेषणत्वसत्त्वेऽपिक्षतिः अविशेषणत्वेऽपि वि. शेषणत्वतात्पर्य्यविषयत्वसत्त्वात् । तथाऽऽख्यातार्थसङ्ख्याप्रकारता. निरूपितविशेष्यतासम्बन्धन शाब्दबुद्धिं प्रति इतरविशेषणत्वता. त्पर्याविषयावृत्तिविशेष्यतासम्बन्धन प्रथमान्तपदजन्योपस्थिति. हेतुरिति पर्यवसितोऽर्थः । चैत्रेण सुप्यते इत्यादिभावाऽऽख्यातस्थले, 'चैत्रकर्त्तकः स्वाप' इत्यादिबोधाद्यथोक्तविशेषणकधात्वर्थस्वापे तदनन्वयाद व्यभिचारपरिहाराय प्रथमान्तति पदविशेषणम् । यद्येवमपि, 'चेत्र एव पचति न मैत्र' इत्यादावन्ययोगव्यवच्छेदरूपैवकारप. दर्थैकदेशेऽन्यत्वे चैत्रस्य विशेषणत्वात् तत्र संख्याऽन्वयाऽनु. पपत्तिरिति विभाव्यते, तदा प्रथमान्तार्थोविशेषणत्वमात्रतात्पर्याविषयत्वेन विशेषणीयः । अवशिष्टांशस्यपि निवेशे प्रयोजनाऽभाषादुक्तस्थले च चैत्रस्य मुख्यविशेष्यत्वविशेषणत्वाभ्यां तात्पर्यविषयः स्वान्न सङ्ख्याऽन्वयाऽनुपपत्तिरिति तन्मतनिष्कर्षः । *अतिगौरवमिति* । अन्यलभ्यकृती शक्तिकल्पने सङ्ख्यान्वय. बोधहेतुपस्थितौ विभिन्नपदजन्यत्वनिवेश एव गौरवम् । प्रथमान्तपदार्थस्य विशेषणत्वमात्रतात्पर्याऽविषयत्वेन निवेशे त्वतिगौरव. मित्यर्थः। *इदमपीति* उपदर्शितकार्यकारणभावे दर्शितलाघव. मपीत्यर्थः। यद्यपि तन्मते भावनान्वयिनि सङ्ख्यान्वयनियमादाख्यातेन भा. घनाऽविषयकसलयान्वयबोधस्थ काप्यजननाद्भाक्नान्वयबुद्धित्वस्य सङ्खयान्वयबुद्धित्वव्यापकतया व्याप्यधर्मावच्छिन्नसामग्या फले जननीये व्यापकधर्मावच्छिन्नसामग्या अपेक्षणाविशेषणत्वमात्रता. त्पर्योऽविषयत्वविशेषणविशिष्टप्रथमान्तार्थोपस्थितिरूपायास्तस्या स्तत्राऽभावादेवोक्तस्थले व्यभिचाराप्रसक्तेन तव्यावृत्तये सङ्ख्या. न्वयकारणतावच्छेदककोटावुक्तविशेषणप्रवेशाऽवसरः, तथाऽपि कुतिशक्तिवादिमते उक्तस्थले तदापत्तिवारणाय भावनान्वयबोधका रणतावच्छेदककोटावेवोक्तविशेषणवितरणप्रयुक्तगौरवम् । अस्म. न्मते तु प्रथमान्तपदार्थस्याख्यातार्थे विशेषणतयैवान्वयेन चन्द्रादे.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy