________________
३२
दर्पणसहिते वैयाकरणभूषणसारे
रेकत्र विशेषणतयाऽन्वितस्य नैराकाङ्क्ष्येणाऽपरत्र विशेषणतया न्वयाऽयोगादुक्तव्यभिचाराऽभावेन न तन्निवारक विशेषणोपादानप्र युक्त गौरवमित्यभिप्रेत्योक्तम् #इदमपीति । अधिकमन्यत्रानुसन्धेयम् ।
अत्राऽऽहुर्नव्याः । लाघवोपबृंहितोक्तयुक्तिकदम्बेनाSSख्यात
स्यधर्मवाचकत्वसिद्धावुत्तरकालकल्प्यतादृशकार्यकारणभावप्रयुक्त• गौरवं, निषादस्थमत्यधिकरणान्यायेना (१) किश्चित्करम् । फलमुखत्वात् । किञ्च, चन्द्राद्युपमाने आख्यातार्थसंख्याद्यन्वयोपगम आ• वश्यकः । तत्र तदन्वयाऽनुपगमे सादृश्यप्रयोजकधर्माऽलाभेन वाक्यस्याऽपरिपुष्टार्थतापत्तेः । क्त्तान्तार्थभोजनादौ तु सयादीनामयोग्यत्वादेवानन्वयेनाऽनतिप्रसङ्गात् । एवञ्च, नास्मन्मते दोषलेशोऽपीति (२) । कतृकर्मणोः संख्यायाश्च विशेषणतां व्यवस्थाप्य कालस्या
(१) निषाद स्थपत्यधिकरणन्यायेनेति । 'वास्तुमयं रौद्रंचरुंनिपेत्' इति प्रकृत्यश्रूयते एतया निषादस्थपतिं याजयेत्' इति । तत्र किं निषादस्थपतिशब्दे षष्ठीसमास उतकर्मधारय इति संशये - कर्मधारय एव समासः स्वीकर्तव्यः । लक्षणानाश्रयणरूपलाघवात् 'स्थपतिर्निषादस्याच्छन्दसामर्थ्यात् ' (जै० अ० ६ । १। ५१ । ) इति सूत्रेणसिद्धान्तितम् नचषष्ठीसमासाश्रयणेऽपि त्रैवर्णिकानामधिकृतानामेवाधिकारःस्यादिति लाघवं कर्मधारयाश्रयणेतु श्रुतिसामर्थ्यात्-अधिकारकारकल्पनम इति गौरवस्य सत्वात् कथं कर्मधारयाश्रयणमिति वाचम् । वाक्यार्थबोधकाले लक्षणापेक्षया श्रुते. लवत्त्वात् प्रथमोपास्थितत्वाच्च, श्रुतिसामर्थ्यादधिकारकल्पनरूपो. त्तरकालिकगौरवस्यविद्यमानत्वेऽपि निषादस्थपतिशब्दे कर्मधा रय एवाश्रीयते । पूर्वोपस्थितलाघवस्य बलवत्त्वादिति बोध्यम् । (२) अत्रहुर्वैयाकरणाः अन्यविभक्त्यन्तपदोपस्थित संख्याया अन्यपदार्थेऽन्वयस्य अप्रसिद्धत्वादेव भवदुक्तकार्यकारणभावकल्पनमसिद्धम् । अत एव पचतीत्यस्मादेवैककर्तृकपाकोपस्थितिः । अन्यथापाकानुकूला कृतिरेकत्वमित्यनन्वितसंख्याया एवोपस्थितिः स्यात् । पदविशेषाध्याहारस्तु प्रकरणज्ञानंविनाऽसम्भवि । अत एवकः पचतीति कर्तृविशेष जिज्ञासोदेति । तस्मादिदमपीत्यस्यबाधकविशेबगौरवमपीत्यर्थः ।