________________
'धात्वर्थनिर्णयः । कालस्तु व्यापारे विशेषणम् तथाहि । “वर्तमाने लड्" (पा० सू० ३।२।१२३) इत्यत्राधिकाराद, धातोरिति लब्धम् ! तच्च धात्वर्थं वदत् प्राधान्याद् व्यापारमेव ग्राहयतीति तत्रैव तदन्वयः । न च सङ्ख्यावत् कर्तृकर्मणोरेवान्वयः
पिता प्रतिपादयति*कालस्त्वित्वादिना*। *व्यापार इति । धात्व. र्थव्यापारे इत्यर्थः। - नन्वाख्यातस्य कालशक्तिपरिच्छेदकेषु “वर्तमाने लड्" (पा० सू० ३।२ । १२३) इत्यादिषु व्यापारवाचकपदानुपादानात् कथं कालस्य धात्वर्थव्यापाविशेषणतेत्यतस्तत्सूत्रप्रामाण्यनैव तां साधयति *तथाही* | *तच* धातुपदं चेत्यर्थः। धात्व. र्थमिति । फलव्यापरोभयात्मकमित्यर्थः । सत्तायाम् इत्याद्यर्थ. निर्देशाद् भूवादिसूत्रप्रामाण्याश्चेति भावः ।वदत् । बोधयत् । सन् ब्राह्मण' इतिवच्छता। *प्राधान्याद्* । धातुजन्यबोधे विशेष्यतया भासमानत्वादित्यर्थः । व्यापारमेवेत्येवकारेण फलव्यवच्छेदः । प्राधान्यादित्युक्त्या यन्मते कर्माऽऽख्याते फलस्य प्राधान्यं तन्मते फल एवान्वय इति ध्वनितम् । *प्राहयतीति । आख्यातार्थकालवि. शेष्यतया बोधयतीत्यर्थः। "गुणानां च परार्थत्वाद्"(१) इति न्या. यातू , प्रत्ययार्थस्य साक्षात्प्रकृतिजन्यबोधविशेष्याऽन्वयित्वनियमाच्चेति भावः । *कत्र्तकर्मणोरिति । समानप्रत्ययोपात्तत्वप्रत्यास
(१) गुणानाञ्चपरार्थत्वादसम्बन्धः समत्वात्स्यादिति तन्याया। कारः। अर्थश्च साधनानां प्रधानार्थत्वात्परस्परमसम्बन्ध स्यात्। कुतः समत्वात् । समत्वञ्च स्वीयसाधनाऽऽकांक्षाऽभाववत्वेसति प्रधा. नार्थ प्रवृत्तत्वम् । यत्रच स्वीयसाधनाऽऽकांक्षाभवति तत्र नायं न्यायः प्रवर्तते । किंतु गुणः कृतात्मसंस्कारेति । अत एव 'संयोगे गुरुः' इति गुरुसंज्ञायां तस्मिन्निति परिभाषासूत्रप्रवृत्तौ संयोगाव्यवहितपूर्वत्वविशिष्टस्यहस्वस्यगुरुसंज्ञा नतु सुकृष्ण इत्यत्र सकारोत्तरोका. रस्यापि । अन्यथा 'गुणानां चोति न्यायेनसंयोगसज्ञायां कर्तव्यायां प. रिभाषासूत्राप्रवृत्त्या सकारोत्तरोकारस्यापिगुरुसंशास्यादिति दिक् ।