SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ av - दर्पणसहिते याकरणभूषणसारे शायः। अतीतभावमाके कर्तरि, पचतीखापत्तेः । अपातीदि. स्यनापतेश्च । पाकानारम्भदशायां कसत्त्वे पक्ष्यतीयनापतेश्च । नापि फले तदन्वयः । फलाऽनुत्पत्तिदशायां व्यापार. सच्चे, पचतीत्यनापत्तेः, पक्ष्यतीत्यापत्तेश्चेत्यवधेयम् । रिति भावः । *पचतीत्यापरितिका कर्नुर्विद्यमानत्वादिति भावः। एवमग्रेऽपि । नापि फल इति । केचितु-फलव्यापारयोर्धातोः पृथक् शक्तौ तयोरुद्देश्यविधे. यभावेनाऽन्वयाऽऽपत्तिः । पृथगुपस्थितयोस्तथाऽन्वयस्यौत्सर्गि. कत्वात् । तत्तद्धातुजन्यताशबोधस्य तथाऽन्वयबोधे प्रतिबन्ध कताकल्पने तु गौरवम् । तस्मात् फलाऽवच्छिन्नव्यापारे व्यापाराव. छिन्नफले च धातूनां शक्तिः। कर्तकर्मार्थकतत्तत्प्रत्ययसममिव्या. हारश्च तत्तद्बोधे नियामकः। गौरवं च प्रामाणिकत्वान्न दोषाय । इत्थश्च कर्नाऽऽख्याते, व्यापारस्य प्राधान्यम्, कर्माख्याते तु फलस्य । यदा यस्य प्राधान्यं तदा तस्मिन् कालाऽन्वयः। सूत्रस्थ. धातुपदादुभयोरपि प्राधान्येनोपस्थितत्वानोक्तनियमावकाशः । फलानुत्पत्तिदशायामारब्धे पाके फले वर्तमानत्वारोपाद्वा, पच्यते इत्यस्योपपत्तिः, एकाऽवयवेपि समूहाऽऽरापादधिश्रयणकाले पच. तीति प्रयोगवत् । आरोपे च प्रतीतिरेव मानम् । व्यापारविगमे फलसत्त्वे, अपाचि देवदत्तेन इत्यादिप्रयोगास्तु भूतत्वस्योत्पत्तिघ. टितत्वादित्याहुः । तदपरे न क्षमन्ते । पृथगुपस्थितयोस्तथान्वयबोधाभ्युपगमे ना. नार्यादिपदोपस्थितानामश्वसूर्गदीनामप्युद्देश्यविधेयभावापत्ति रतो विभत्रपदजन्योपस्थितेरेव तन्त्रता तत्रानुसतव्या । सभा. वाच प्रकृते कथं तदन्वयबोधाऽऽपादनम् । तादृशफलव्यापारयो. धातुशक्ती मानाभावो गौरवं च । विशिष्टधर्मस्य शक्यतावच्छेदकवे उक्तप्रयोगाणाम् आरोपेणोपपादनं त्वगतिकगतिरिति स्पष्टमेष विधेकिनाम् । एतदनुरोधेन भूतत्वस्योत्पत्तिघटितत्वाऽभ्युपगमे प. - रमताऽनुसूतिरपीति । . व्यापारे मास्यातार्थकालाऽन्वये दूषणमाशय मिराच.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy