________________
धात्वर्थनिर्णयः ।
न चामवासी कृतकलेवरस्योत्थानाऽनुकूलयत्न सस्वादुि ष्ठतीति प्रयोगाऽऽपत्तिः । परयत्नस्या (१) ज्ञानादप्रयोगात । किश्चि बेष्टादिना तदवगतौ च अयमुत्तिष्ठति, शक्त्यभावात् (२) फलन्तु न
यमनः
*नचेति* । यत्नसत्त्वादिति । यत्तरूपव्यापारम्य वर्त्तमानत्वेन विषयाबाधात् । मम तु तदानीं फलानुत्पत्त्या न ताहशप्र योगाऽऽपत्तिरित्यर्थः । * अप्रयोगादिति । ननु परयत्नस्य विजातीनः संयोगाश्रयसमवायरूप हेत्वभावादप्रत्यक्षत्वेऽपि चेष्टादिपक्ष• केण तल्लिङ्गकेन वाऽनुमानेन तदवगतावुत्तिष्ठतीति प्रयोगाऽऽपत्तिदुःसमाधयैवेत्याशङ्क्यापस्या परिहरति *किञ्चिश्चेष्टादिनेति* । यकिञ्चिच्छरीरावयवक्रिययेत्यर्थः । *तदवगतौ यतानुमितौ । अनुमानप्रयोगश्चैवम् – देवदत्तायचेष्टा प्रयत्नजन्या । चेष्टात्वात् । मचेष्टावत् । अथवा, भयमुत्थानाऽनुकलयत्नवान् । विजातीयचेष्टावत्वात, अहमिवेति । चेष्टाप्रयत्नयोः कार्यकारणभावश्च प्रकृते ऽनुकू लस्तर्कः। स्वाश्रयावच्छेद्यत्वस्य हेतुतावच्छेदकसम्बन्धत्वान्नस्वरूपा सिद्धिरिति ।
-
परे तुक्कापत्तिमन्यथैव परिहरन्ति । तथाहि आमवातजडकृितकलेवर प्रयत्नस्योत्थानाद्देश्य कत्वेऽपि तद्जनकत्व। श्नोक्तप्रयोगाप• शिः । अत एव, 'उत्थानाय यतते' इत्येव तत्र प्रयोगः । यागपाका. द्देश्यककुण्डनिर्माणतण्डुलक्रयणादिदशायां, यजति पचति इत्यादिप्रयोगवारणाय स्वरूपसम्बन्धरूपप्रयोजकताविशेषस्यैव सम्बन्धताया अभ्युपेयत्वादिति ।
तच्चिन्त्यम् । तदुद्देश्यकस्वं हि तदिच्छाऽधीनेच्छावि चयत्वम् । उपायेच्छायाः फलेच्छाधीनत्वात् । उपायत्वं च प्रयो
(१) स्वीययज्ञस्य प्रत्यक्षंतु मनःसंयुक्तसमवायरूपसनिकर्षसस्वात् संभवति ।
(२) शक्त्यभावादिति । एवं चैकस्ययस्नाख्यस्य कारणस्य विद्य. मानश्वेऽपि सहकारिकारणरूपायाः शकेरभावात्फलं न जायते - इस्यस्योपपत्तिः ।