________________
मङ्गलवादः ।
इत्याद्युत्पत्तिबोधकतद्विरोधः (१) । यत्किञ्चिन्नामरूपात्मकस्यान्यतोऽपि सम्भवादाह *सर्वमिति । यावदर्थकम् । उत्पत्तिरुपलक्षणमवनादेः। तेन जगत्कर्तृत्वादिरूपोत्कृष्टधर्मस्य स्तुत्यतावच्छेदकस्य लाभः । अत्र च "यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति” (तैत्तिरीयके३।१ ) इत्याद्याः श्रुतयः प्रमाणम् ।
मतान्तरे (२) यत इति पञ्चमी निमित्तहेतुतायाम् । व्युपसृष्टवृतुधातोराद्यक्षणसम्बन्ध (३) रूपोत्पत्तिरर्थः । ननु सर्वान्तर्गतवियदाद्यात्मकपदार्थस्यानादितया कथमुत्पत्तिमत्त्वमत आह *जंगदिति । स्थावरजङ्गमात्मकमित्यर्थः । तथाच गच्छति नश्यतीति व्युत्पत्त्या विनाशित्वे वोधिते बिनाशिभावस्य जन्यत्वनियमेन तस्यो. त्पत्तिर्न विरुद्धेति भावः । एतत्कल्पे स्फोटपदं शास्त्रानुमानप्रतीतपरम् । तादृशं रूपं यस्येति व्युत्पत्त्या स्फोटरूपमिति भगवतो विशेषणं बोध्यम् । शेषं पूर्ववत् । यद्वा स्तुत्यतावच्छेदेकरूपं प्रदर्श यितुं विशिनष्टि #स्फोटरूपमिति* । वक्ष्यमाणव्युत्पत्त्या समस्तार्थ प्रकाशकस्वरूपमित्यर्थः । तदुपपादयन्नेव स्तुत्यतावच्छेदकान्तरमपि दर्शयति *यत इति* । यस्मादुपादानादिति सार्वविभक्तिकतसिना यस्मिन्नधिष्ठाने (४) इति वाऽर्थः । विवर्त्तश्चातात्त्विकोऽन्यथाभावः । अपरित्यक्त पूर्वरूपस्य रूपान्तरप्रकारकप्रतीतिविषयत्वमिति यावत् । जगच्छब्दश्च रूढ्या नामरूपपरः । तथाच यस्मिन्नधिष्ठाने एतत्सर्व जगद् भूतेन्द्रियादि तत्तद्रूपेण प्रतिभातीत्यर्थः । "नेह नानाऽस्ति” ( काठके २|४|११ ) इति श्रुत्या बोधितबाधस्यापि जगतः प्रतिभासे अधिष्ठान सत्ताया एव नियामकत्वात् समस्तार्थप्रकाशकत्वोपपत्तिरप्रच्युतस्वरूपस्यैव ब्रह्मणो जगद्रूपेण विवर्त्तनादविकारित्वरूपोत्कृष्टधमविगतिश्च । अत्र च "तमेव भान्तमनुभाति सर्वम्" (काठके २/५/१५,
(१) श्रुतिविरोध इत्यर्थः । उद्धृतश्रुतौ ' तस्मादेतस्माद्वा' इत्यत्र 'तस्माद्वा एतस्माद्' इत्येव पाठ उपनिषत्पुस्तकेषु दृश्यते ।
(२) न्यायसिद्धान्ते इति भावः । तन्मते समवाय्यसमवायिनिमित्तभेदेन कारणत्रयस्य स्वीकारात् परमेश्वरस्य जगतोनिमित्तकारणत्वं परमाण्वादेः समवायिकारणत्वं संयोगादिश्वासमवायिकारणत्वमित्ययुपगमात् ।
(३) आद्यक्षणसम्बन्धश्च स्वाधिकरणसमयध्वंसानधिकरणसमयसम्बन्धः, तत्समय वृत्तिध्वंसप्रतियोगिसमयावृत्तित्वे सति तत्तत्समयसम्बन्धो वा ।
(४) अधिष्ठानं नाम आरोपाधिकरणम् ।