________________
दर्पणसहिते वैयाकरणभूषणसारे स्फोटरूपं पतः सर्वं जगदेतद् विवर्त्तते ॥१॥
रयाद्'(१)इतिन्यायस्य "प्रययस्थात्" (पा० सू० ७-३-४४) इति सूत्रे "असुब्वतः" इति प्रयोगमुदाहरता भाष्यकृताऽनाहतत्वान्न मत्वर्थीयानुपपत्तिः । दृश्यते चेदृशस्थले प्रयोगद्वैविध्यम्- - शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे। .
इत्यादि । तथाच तदभिन्नमित्यर्थः। प्रमाणं चात्रोक्तपुराणवाक्य. मेव । एवञ्च कार्यवैचित्र्यस्य कारणवैचित्र्यनियम्यत्वाजगदवना. दिकार्यवैचित्र्योपपत्तये तत्तद्गुणप्रधानमूर्तिपरिग्रहो भगवतो न पारमार्थिको भेद इति स्तुतिकर्मता शिवस्य नानुपपन्नेति भावः। उत्कृष्टगुणवत्त्वमेवाविष्करोति *यत इति* । वेदान्तिमते मायाशब. लस्य ब्रह्मणो जगदुपादानत्वात् “जनिकर्तुः” ( पा० सू०१-४-३०) इत्युपादानहेतावपादानसंज्ञानिबन्धना पञ्चमी । 'गुण' इत्युक्तेः "विभाषा" (पा० सू०२-३-२५) इत्यस्य न प्रसक्तिः । तथाच यस्मा. दुपादानहेतोरित्यर्थः। सर्व जगत् स्फोटरूपं विवर्त्तत इति योजना। स्फुटत्यभिव्यक्तीभवत्यर्थोऽस्मादिति स्फोटो नामाद्यात्मकः शब्दः । बाहुलकादपादाने घञ् । रूप्यते निरूप्यते इति रूपमर्थः। तयोः समाहारद्वन्द्वे नपुंसकैकवचनान्तम् ।वाच्यवाचकस्वरूपमिति तदर्थः। "नामरूपे व्याकरवाणि" (छान्दोग्ये ६।३।२) इति श्रुतेः एतत् । अत्यन्तसान्निध्येन बुद्धया विषयीक्रियमाणम् *विवर्त्तते । उत्पद्यत इत्यर्थः। धातोरुपसृष्टत्वात्। ननु नामरूपात्मकस्य,"सदेव सोम्येदमन आसीत्" (छान्दोग्ये ६।२१) इति श्रुत्या सनातनत्वबोधनात् कथमुत्पत्तिशालित्वमत आह *जगदिति* । “वर्तमाने घृषत्" (उणादिसू० पा०२ सू०२५०) इति निपातनात्साधु । तथाच गच्छति तिरोधत्त इति व्युत्पत्त्या तिरोधान उक्त यत्तिरोधत्ते तदाविर्भवती. ति नियमेनाविर्भावस्य लाभात्स एवात्रोपसृष्टार्थः। एवञ्च सत्त्वेनैतस्य सनातनत्वेऽपि नामत्वादिनाविर्भावाद्यभ्युपगमानोक्तश्रुतिविरोधोनापि "तस्मादेतस्माद्वा आत्मन आकाशः सम्भूतः" (तैत्तिरीयके ११)
(१) न कर्मधारयान्मत्वर्थीयों वहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर इति न्यायस्वरूपम् । अत्र कर्मभारयपदं बहुबाहीतरसमासपरमिति मथुरानाथतर्कवागीशकृतपञ्चलक्षणीव्याख्यायां स्पष्टम् ।