________________
श्रीगणेशाय नमः। दर्पणाख्यव्याख्यासहितः वैयाकरणभूषएसारः।
-..
.
.
.
.
.
रमाप्रेमाऽऽमजजगदवनदक्षं मधुहत- . श्रुतिस्तोमाहृत्या परिजनितवेदाननमुदम् । अखण्डानन्दाढ्यं निखिलजनहृत्कञ्जनिलयं
हयग्रीवं वन्दे प्रकृतकृतिविघ्नक्षतिकृते ॥१॥ श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम् ॥ - सत्येकस्मिन्नपि वाधके समवहितसाधकसहस्रादपि कार्योत्पत्ते. रदर्शनादपेक्षितप्रारिप्सितप्रत्यूहापोहायानुष्ठितं भगवत्स्तुतिरूपं मङ्गलं ग्रन्थकृच्छिष्यशिक्षार्थमादी निबध्नाति *श्रीलक्ष्मीरमणमिति* । अधिकरणव्युत्पन्नल्युडन्तरमणशब्देन कर्तृषष्ठ्यन्तलक्ष्मीपदस्य समासः । तेन च श्रीसहितशब्दस्य मध्यमपदलोपी समा. सः। शाकपार्थिवादेराकृतिगणत्वात् । तदुपादानश्च सशक्तिकस्यैव भगवतो जगन्निर्माणकारणत्वमिति ध्वनयितुम् । *नौमीति* । “ स्तुतो" इति धातोरस्मशब्दाप्रयोगेऽपिगम्यमानतदर्थसामानाधिकरण्यस्य लकारार्थकर्त्तरि सत्वाद् वर्तमानक्रियाद्योतकलडुत्तमपुरुषः। अस्मात्तमः (पासू०१-४-१०७) इत्यत्र पूर्वसूत्रात् स्थानिनीत्यस्या. नुवृत्तः। स्तुतिश्चोत्कृष्टगुणवत्वप्रकारकबोधानुकूलोब्यापारः। स एव च प्रकृतधात्वर्थः। बोधरूपधात्वर्थफलाश्रयत्वाल्लक्ष्मीरमणस्य कर्म. ता। एवञ्च वैयाकरणमते प्रकृते श्रीसहितलक्ष्मीरमणाश्रयकोत्कृष्टगुणवत्त्वप्रकारकबोधानुकूलो मदभिन्नाश्रयको वर्तमानशब्दप्रयोगरूपो व्यापार इति वाक्यार्थः। नन्वतच्छास्त्रप्रवर्तकत्वेन शिवस्या. भ्यर्हिततरत्वात्तत्स्तुत्यात्मकमङ्गलमपि कुतो नाचरितमत आह*गौरीरमणरूपिणमिति* । स्वरूपपररूपपदेन गौरीरमणपदस्य षष्ठीसमासस्ततोग्दन्तत्वनिबन्धनो मत्वर्थीय इनिगौरीरमणो रूपं स्वरूपं यस्येति षष्ठ्यर्थबहुव्रीहिणोकार्थलाभेऽपि लाघवमूलक-'न कर्मधा